SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अथवा महत्या युत्या, महता बलेन, महता वाहनेन, सुखासनप्रमुखेण, अश्वादिवाहनेन वा महता परि-INI वारेण सहितः, महता समकालं त्रुटितादिवादित्राणां प्रवादेन, तेषां वादित्राणां नामानि-शङ्खः, पणवो म| न्मयपटहः, लोहमयः पटहः, ढोल-इति प्रसिद्धो वा । भेरी प्रसिद्धा, झल्लरी अपि प्रतीता, खरमुखी गुर्जरदेशे काहली, हुडक्क इति त्रिवली लोकोक्तिः, मुरुजो मृन्मयमृदङ्गः, मृदङ्गः काष्ठमयः, दुन्दुभिर्देवानां वादित्रम्-एतानि वादित्राणि । अन्यान्यपि बहूनि वादित्राणि सन्ति, सर्वाणि वादित्राणि पञ्चधा भवन्ति-लोलिक घण्टादि, पुनस्तालिकं कांस्यकादिकम्, पुनस्तान्त्रिकं वीणादिकम् , पुनःश्वासिकम् , पुनः पुटकं ढोल-निःस्वानादिकम् एतेषां पश्चप्रकाराणां वादित्राणां शब्देन सहितो राजा सिद्धार्थो भवति । पुनः सिद्धार्थो राजा किं करोति ? क्षत्रियकुण्डग्राम नगरम् उच्छुल्कम्-दशदिवसं यावद् दानस्थाने केऽपि दानं न गृह्णन्ति । पुनः क्षत्रियकुण्डग्रामे नगरे उत्करम्-वादीनां करं न गृह्णाति । पुनरुत्कृष्टं मुक्तक्षेत्रादिधान्यभागम् । पुनः क्षत्रियकुण्डग्रामे नगरे दशदिवसं यावत् केपि मौल्यं दत्त्वा वस्तूनि न गृह्णन्ति, यस्य यद्वस्तु युज्यते स राज्ञो हटात् समानयति तन्मूल्यं सिद्धार्थो राजा भाण्डागाराद् ददाति । पुनः अभटप्रवेशं राज्ञो भटाः कस्यापि गृहे गत्वा बलात्कारं न कुर्वन्ति । दशदिनं यावत्-अदण्ड-कुदण्डम् अपराधस्याऽनुसारेण द्रव्यग्रहणं दण्डः, बह्वऽपराधेन स्तोकद्रव्यग्रहणम् , तथा स्तोकाऽपराधेन बहुद्रव्यग्रहणं कुदण्डः, उभयोरपि दण्डकुदण्डयोः राज्ञा सिद्धार्थेन त्यागः कृतः।। For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy