________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्रं
॥१०५॥
कल्पद्रुम कलिका वृत्तियुक्त. व्याख्या.
विस्तारणम् गोशीर्षचन्दन-रक्तचन्दन-दर्दरपर्वतोत्पन्नचन्दनानां हस्तकदानम् , गृहे गृहमध्ये चतुष्कदेशे माङ्गल्यघटस्थापनम् , गृहाणां द्वारदेशेषु तोरणबन्धनम् , माङ्गलिककुम्भमोचनम् , यस्य एकदेशः उपरिष्टादू लग्नो द्वितीयो देशो भूमौ लग्नः एतादृशः पुष्पहारसमूहः तस्य हारसमूहस्य विस्तारणम् , पुष्पगृहरचनम् , स्थाने स्थाने पञ्चवर्णकुसुमविक्षेपणम् , पुनः कृष्णागुरु-चीड-सेल्हारस-दशाङ्गधूपघटीनां संस्थापनम् , पुनरन्येषामपि सुगन्धद्रव्याणां विस्तारणं यूयं कुरुत । पुनः स्थाने स्थाने सुगन्धवर्तिकोत्क्षेपणं कुरुत, कर्पूर-कस्तूरिकादीनां गुटिकाम् इव सकलं नगरं सुगन्धं कुरुत । पुनरपि स्वयं नाटकं कुर्वन्ति ते नटाः, तथा नर्तकाः खयं स्थित्वा छात्रेभ्यो नाटकं कारयन्ति ते नर्तकाः, पुनर्जल्लाः वरत्रोपरि आरुह्य क्रीडन्ति, पुनर्मल्लाः मल्लयुद्धकराः, मौ|ष्टिकाः ये मुष्टिभियुद्धं कुर्वन्ति, बेलम्बकाः, विदूषकाः, भाण्डाः कथका:-कथानां कथकाः, रासकाः ये रासं वदन्ति, प्रवादकथकाः, प्लवकाः ये गर्ताम् , उष्टुं, गजं वा कूर्दन्ति, नदी तरन्ति । पुनः पाठकाः ये राज्ञां वंशावलींवदन्ति, कवित्वानि कथयन्ति । आरक्षकाः, कोपालाः, पुनः आख्यायकाः शुभाशुभनिमित्तकथकाः । पुनर्लङ्घाः-वंशम् आरोप्य वंशाग्रे नर्तन्ते, मङ्खाः-ये चित्रपटं गृहं गृहं दर्शयित्वा भिक्षां याचयन्ति, पुनस्तूणयल्ला:-ये भस्त्रिका मुखवायुना संपूर्य वादयन्ति, तुम्बविणिकाः-ये तुम्बविणां वादयन्ति, तथा अनेके तालाचरा:-ये हस्ततलास्फालनं कृत्वा कृत्वा नृत्यन्ते, एतेषां मर्वेषां समाहृय स्थाने स्थाने स्वकार्येषु एतान्
| ॥१०५॥
For Private and Personal Use Only