SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir यस्यां रात्री भगवतो जन्म जातं तस्यां रात्रौ वैश्रमणस्य आज्ञाकारिणस्तिर्यगज़म्भकदेवाः सिद्धार्थस्य राज्ञो गृहे भाण्डागारेषु द्वात्रिंशत्कोटी रूप्यस्य, द्वात्रिंशत्कोटीः सुवर्णस्य, द्वात्रिंशत्कोटी रत्नानाम् , बहूनां चीनाशुक-पट्टकूल-देवदूष्यादीनां वस्त्राणां वृष्टिम् , मुद्रिकाद्याभरणानां वृष्टिम् , बहूनां पुष्पाणाम् , बहूनां नागवल्लीपत्राणाम् , बहूनां सहकारादिफलानाम्, बहूनां शालि-गोधूम-यव-मुद्गप्रमुखाणाम् , बीजानाम् , बहूनां कर्पूर-चन्दनादिगन्धद्रव्याणाम् , बहूनाम् अवीरप्रमुखचूर्णानाम् , यहूनां हिङ्गुल-हरिताल-लाजवगोदीनां वर्णानाम् , बहूनां सुवर्णद्व्याणां वसुधाराणां वृष्टिं चक्रुः, । अस्मिन् अवसरे प्रियभाषिणी चेटी राज्ञः सिद्धार्थस्याऽग्रे पुत्रजन्मनो वापनिकां ददौ । हे राजन् ! भवतां प्रियमर्थवतां प्रियार्थ कथयामः, भवतां प्रियं भवतु इत्यादिप्रियवचनं कथयित्वा राज्ञः पुत्रजन्म निवेदितम् । यया पुत्रजन्मनः वर्धापनिका दत्ता, तस्याः छत्रतले संस्थाप्य राज्ञा सकले च अन्तःपुरे सा वृद्धा कृता, दासीत्वं दूरीकृतम्, मुकुटं वर्जयित्वा अन्यत्सर्व भूषणादिकं तस्यै राजा ददौ । ग्रन्थान्तरेषु एवम् उक्तम् अस्ति "तदिवसात् प्रारभ्य पञ्चदशमासान् यावत् प्रतिदिनं सार्धतिस्रः कोटी रत्नानां धनददेवो वर्षति"। For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy