SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org कस्य इन्द्रः स्लपनं करोति, पश्चाद् यथाऽनुक्रमं लघु-वृद्धतया, प्रान्ते चन्द्र-सूयौं लपनं कुरुतः, ततः पश्चाद् ईशानेन्द्रो भगवन्तम् उत्सङ्गे गृह्णाति, सौधर्मेन्द्रो वृषभचतुष्टयरूपं विरच्य अष्टभिः शृङ्गैः क्षीरसमुद्रस्य क्षीरं भगवतः उपरि स्रवति । अनेन विधिना सर्वेऽपि देवाः स्वभत्तया लानं रचयित्वा भगवतोऽग्रे अष्टप्रकारिकां पूजां रचयन्ति-पुष्प-चन्दनविलेपन-अक्षतढीकन-दीपकरण-फलढौकन-धूपोपक्षेपण-पानीयकलशढालन-दर्पण-नैवेद्यढौकनम्-एवम् अष्टप्रकारं भगवत्पूजनं कृत्वा अग्रे चाऽष्टमङ्गलिकरचनं कुर्वन्ति-अष्टमङ्गलिकनामानि-श्रीवत्स-मत्सयुग्म-दर्पण-पूर्णकलश-खस्तिक-नन्द्यावर्त-भद्रासन-शरावसंपुटानि, इमानि | अष्ट मङ्गलिकानि प्रभोरग्रे स्थापितानि, पश्चाद् आरात्रिकं कृतम्, गीत-गानं विहितम्, नृत्यं रचितम् , वादित्राणि वादितानि, भावना भाविता। ततो भगवन्तं भगवन्मातृसमीपे मुक्त्वा, भगवन्मातुरवखापिनी निद्रां हृत्वा, भगवत्पतिबिम्ब हृत्वा च, रत्नजटितकुण्डलयुगलम् , देवदृष्ययुगलं च भगवन्मात्रे दत्त्वा सुवर्णजटितकन्दुकं भगवतः क्रीडाथ मुक्त्वा, अंगुष्टे अमृतं स्थापित्वा, द्वात्रिंशत्कोटिं सुवर्णस्य वर्षित्वा पश्चात् सकलदेवानां मध्ये इन्द्रः एतादृशीम् उदूघोषणां ददाति-भो भोः सर्वे देवाः! शृण्वन्तु-यः कश्चिद् देवो वा, असुरो वा, दानवो वा भगवतः उपरि तथा भगवदजनन्याः उपरि विरूपं चिन्तयिष्यति तस्य मस्तकम् अर्जुनमञ्जरीवद् क.स.१८॥ For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy