SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra कल्पसूत्रं ॥१०२॥ www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir एकयोजनमयं तेषां नालं भवति । आवश्यकसूत्रे - "एक कोटिषष्टिलक्षप्रमाणाः सर्वे भवन्ति” ते सर्वे क्षीरसमुद्र- गङ्गा-सिन्धु- पद्मग्रहादितीर्थजलैर्भृताः सन्ति, तान् सर्वान् लात्वा सर्वेऽपि देवा इन्द्राज्ञाम् अभिलषन्तस्तिष्ठन्ति । कलशधारिणो देवाः मनसि जानन्ति यदा इन्द्रोऽस्मान् आदेशं ददाति तदा कलशनीरें : स्लपयामः, अस्मिन् समये इन्द्रस्य मनसि संशयः समुत्पन्नः, अहो ! भगवान् लघुशरीरो यदा एतावन्त्यः कलशजलधाराः पतिष्यन्ति तदा भगवत्शरीरं ममोत्सङ्गात् कुत्रचिद् वहित्वा यास्यति, इति विचारयन् इन्द्रो देवानाम् आदेशं न ददाति तदा भगवता अवधिज्ञानेन इन्द्रस्य मनःसंशयो ज्ञातः, ततो भगवान् इन्द्रस्य स्वबलदर्शनाय इन्द्रस्य उत्सङ्गाद् वामचरणाङ्गुष्टेन सिंहासनं स्पर्शति, सिंहासनेन शिला चम्पमाना सती शिला चकम्पे, तस्यां कम्पमानायां मेरुचूला कम्पमाना जाता, ततो लक्षयोजनमयः सर्वोऽपि मेरुश्चकम्पे, तस्मिन् कम्पमाने सर्वा पृथिवी कम्पते स्म, सर्वपर्वतानां शृङ्गाणि त्रुटितानि, समुद्राणां जलानि क्षुब्धानि ब्रह्माण्डं स्फुटद् इव जातम्, सम स्तदेवानां क्षोभः संजातः, देवाङ्गनाः भयविह्वलाः सत्यो भर्तॄणां कण्ठे संलग्नाः, तस्मिन् समये इन्द्रेण ज्ञातं किं जातम् ? अस्मिन् शान्तिकरणसमये केन दुष्टेन असुरेण विकारः कृतः, एवं ज्ञात्वा हस्ते वज्रं गृहीतम् अवधिज्ञानेन भगवतो विलसितं ज्ञात्वा अहो !! तीर्थंकरस्य अनन्तं वलं मया न ज्ञातम् इति विचार्य स्वाऽपराधं क्षमयति - हे स्वामिन्! अहं त्वदीयदासोऽस्मि, इत्युक्त्वा देवान् इन्द्र आदेशं ददाति । तत्र प्रथमं द्वादशदेवलो - For Private and Personal Use Only कल्पद्रुम कलिका वृचियुक्तं. व्याख्या. ५ ॥१०२॥
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy