SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दिशि रतिकरपर्वते आगत्य विश्रामो गृहीतः । एकं सौधर्मेन्द्रं विना अन्ये त्रिषष्टिदेवेन्द्राः सरलाः मेरुदिशायां प्राप्ताः । अथ सौधर्मेन्द्रो भगवतो जन्मगृहे आगत्य भगवन्तं तन्मातरं च नमस्कृत्य प्रदक्षिणात्रयं दत्त्वा भगवन्मातरं प्रत्याह-हे मातः ! अहं प्रथमदेवलोकस्य इन्द्रोऽस्मि, चतुर्विंशतितमतीर्थंकरस्य तव पुत्रस्य जन्ममहोत्सवं कर्तुम् आगतोऽस्मि, त्वया न भेतव्यम् । नमोऽस्तु रत्नकुक्षिधारिके । तुभ्यम् इत्युक्त्वा अवस्त्रापिनीं निद्रां दत्त्वा पुनर्भगवतः प्रतिबिम्बं जनन्याः पार्श्वे मङ्गलार्थ, स्थानशून्यनिवारणार्थं मुक्त्वा आत्मनः रूपाणि पञ्च रचयति तत्र एकेन रूपेण उभाभ्यां हस्ताभ्यां भगवन्तम् उत्पादयति, पुनरुभाभ्यां रूपाभ्याम् उभयोः पार्श्वयोः चामरैवजयति, चतुर्थरूपेण भगवन्मस्तके छत्रं धारयति, पञ्चमेन रूपेण अग्रे वज्रम् उल्लालयन् पदातिवत् चलति । एवं भगवन्तं सौधर्मेन्द्रो लात्वा मेरो पर्वतोपरि पाण्डुकवने, मेरुचूलातो दक्षिणदिग्भागे अतिपाण्डुकम्बलनामशिलोपरि सिंहासने पूर्वाऽभिमुखो भगवन्तम् उत्सङ्गे लात्वा सौधर्मेन्द्रस्तिष्ठति, तत्र सर्वे देवा मिलित्वा आत्मीयाऽऽत्मीय सेवकेभ्यः समादिशन्ति-भो देवाः ! एकसहस्रमष्टोत्तरं सौवर्णकलशाः, एतावन्त एव रूप्य - कलशाः, एतावन्त एव रत्नमयाः, एतावन्त एव स्वर्ण-रूप्यमयाः, एतावन्त एव स्वर्णरत्नमयाः, एतावन्त एव रूप्यरत्नमयाश्च, एतावन्त एव स्वर्णरूप्यरत्नमयाः, एतावन्त एव मृन्मया कलशाः समानेतव्याः । सर्वे कलशाः अष्टसहस्र-चतुः षष्टिप्रमिताः भवन्ति । तेषां किं प्रमाणम् ? पञ्चविंशतियोजनोत्तुङ्गाः, पञ्चविंशतियोजनविस्तीर्णाः, For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy