________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
कल्पसूत्र
॥१०॥
तत्र केचिद्देवा इन्द्राऽऽदेशात् , केचिद् मित्रवचनात् , केचित्स्वप्रिया-आग्रहात् , केचिद् आत्मीयभावात्, केचि
कल्पद्रुम त कौतुकात्, केचिद् अपूर्वाऽऽश्चर्यवशाद् एवं सर्वे देवाश्चेलुः । पृथक पृथग वाहने स्थिताः परस्परम् अभिवद- कलिका |न्ति-तत्र एको देवः सिंहस्थितो गजस्थं देवं वदति तब गजो मार्गात् त्वया दूरं कर्तव्यः, नो चेद् अयं मम || बृचियुक्त. सिंहो विदारयिष्यति । एवं गरुडस्थः सर्पस्थमपि बदति, चित्रकस्थः छागस्थम् अभिवदति, एवं देवानां कोटा
व्याख्या. कोटी नानाऽऽकारवाहनाऽऽरूढाश्चचाल । तदा विस्तीर्णमपि आकाशं संकीर्णम् आसीत्, पुनर्मागे केचिद्देवा मित्रं त्यक्त्वाऽग्रे ययुस्तदाऽपरो मित्रोऽवादीत्-भो मित्र! क्षणम् एकं प्रतीक्षख यावद् अहमपि तव सार्थे एव आयामि, तदा अग्रगो देवः प्रोवाच यः कश्चित् प्रथमं गत्वा भगवन्तं प्रणमति स भाग्यवान , एवम् उक्त्वा अग्रे एव प्रचलति, परं मित्राय न तिष्ठति । यस्य सबलानि वाहनानि सन्ति, ये पुनस्वयमपि बलवन्तः सन्ति ते सर्वेभ्योऽपि अग्रे निस्सरन्ति । तदा निर्बलाः स्खलन्तो वदन्ति-अहो! किं क्रियते ? अद्य आकाशं संकीर्ण जातम् , तदा पुनरन्ये देवा अब्रुवन् मौनं कुर्वन्तु, 'संकीर्णाः पर्ववासराः' । अथ आकाशे ब्रजतां देवानां मस्तके ताराणां किरणाः लगन्ति, ते एतादृशाः दृश्यन्ते-ज्ञायन्ते देवा निर्जरा अपि सजरा जाताः, मस्तके पलिता इव ॥१० शा दृश्यन्ते स्म । पुनर्देवानां शरीरं तारकाः स्पृशन्ति तदा ज्ञायते किं देवानां शरीरे प्रवेदकणाः बभूवुः?, मस्तके मुकुटसदृशास्तारा दृश्यन्ते । एवम् आगच्छभिर्देवैः नन्दीश्वरद्वीपे विमानानां संक्षेपो विहितः । दक्षिणस्यां
For Private and Personal Use Only