________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काष्ठैः शान्तिकं पौष्टिक होमं विधाय उभयोर्हस्ते रक्षापोहलिकां बबन्धुः, पश्चात् पर्वतायुर्भव इति भगवत | आशीर्वादं दत्त्वा मणिमयो गोलको आस्काल्प वादयित्वा भगवतः क्रीडार्थ पल्ययनोपरि बद्धा भगवन्तं तथा | भगवज्जननीं च जन्मस्थाने नीत्वा स्वखदिक्षु दिक्कुमार्यो जग्मुः । इति षट्पञ्चाशद्दिकुमारीणां महोत्सवकरणाऽनन्तरं चतुःषष्टि-इन्द्राणाम् आसनानि चकम्पिरे, तदा अवधिज्ञानेन श्रीमहावीरस्य जन्म ज्ञात्वा पूर्वं सौधर्मेन्द्रो | हरिणेगमेषिदेवम् आहूय सुघोषाघण्टां द्वादशयोजनविस्तीर्णाम् अष्टयोजनोच्चाम्, एकयोजननालां हरिणेगमे|षिणा देवेन समं पञ्चशतदेवैः तां घण्टां वादयति, तस्या घण्टायाः रवेण द्वात्रिंशल्लक्षविमानस्थाः सर्वाः घण्टा वायन्ते स्म तदा सर्वे देवाः सावधाना बभूवुः । एवमेव ईशानेन्द्रोऽलघुपराक्रमं नाम देवं समाहूय महा| घोषां घण्टां वादयति । एवं चतुःषष्टिः देवेन्द्रा आसनप्रकम्पाऽनन्तरं खकीयां स्वकीयां घण्टां वादयन्ति । तदा सर्वे देवा इन्द्रस्य कार्यं ज्ञात्वा इन्द्रसमीपे आयान्ति । अथ सौधर्मेन्द्रो हरिणेगमेषिणं देवम् उक्त्वा तत्पश्चाद् | एकलक्षयोजनप्रमाणं पालकनामकं विमानं कारयति । तस्य विमानस्य मध्यभागे पूर्वदिशाऽभिमुखसिंहासनोपरि इन्द्रस्तिष्ठति, अग्रे चाऽष्टौ इन्द्राण्यो नाटकं कुर्वन्ति, इन्द्रस्य वामपार्श्वे इन्द्रसामानिकाः देवास्तिष्ठन्ति इन्द्रस्य दक्षिणपार्श्वे तिसृणां पर्षद्रां देवाः स्थितास्सन्ति, इन्द्रस्य पृष्ठे सप्त अनीकानि तिष्ठन्ति एवम् अपरेऽपि इन्द्राः स्त्रीयस्त्रीयस्थानाद् जिनजन्म ज्ञात्वा आत्मीयाऽऽत्मीयविमानेषु स्थिताः परिवारसहिता नन्दीश्वरद्वीपं समीयुः ।
For Private and Personal Use Only