________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्रं
॥१०॥
पश्चिमदिशाया रुचकपर्वताद् आगत्य भगवतस्तथा भगवज्जनन्याश्चाऽग्रे वातार्थ व्यजनं धृत्वा अग्रे तिष्ठन्ति ।। Are कल्पद्रुम अथ पुन:
कलिका अलंबुसा मितकेशी पुण्डरिका च वारुणी । हासा सर्वप्रभा श्रीः हीः अष्टौ दिगरुचकाद्रितः॥५॥ वृत्तियुक्त. एता अष्ट उत्तरदिशोरुचकपर्वताद् आगत्य चामराणि ढालयन्ति । पुनः, विचित्रा चित्रकनका तारा सौदामिनी
व्याख्या. तथा। एताः चतस्रो विदिशासूचकपर्वतेभ्य आगत्य हस्ते दीपकं गृहीत्वा भगवतोऽग्रे तिष्ठन्ति, पश्चात् पुन:
रूपा रूपासिका चैव सुरूपा रूपकावती ॥ ६॥ एताश्चतस्रः रुचकद्वीपमध्यदिशाभ्य आगत्य भगवतो नालं चतुरङ्गुलवर्ज छित्त्वा गर्त निखाय भूमिमध्ये क्षिपन्ति, तदुपरि रत्नमयं पीठं चतुरस्र रचयन्ति उपरि दूर्वां वपन्ति । ततः पश्चात् सूतिकागृहाद् एकं पूर्वस्याम् , एक दक्षिणस्याम् , एकं च उत्तरस्याम् , एवं त्रीणि कदलीगृहाणि कृत्वा तन्मध्ये सिंहासनानि स्थापयन्ति । तत्र दक्षिणकदलीगृहे सिंहासनोपरि भगवन्तं भगवजननी च संस्थाप्य सुगन्धतैलाऽभ्यङ्गं तयोश्चक्रुः । तत्र पूर्वदिशायाः कदलीगृहे भगवन्तं भगवजननी च नीत्वा संस्लाप्य पश्चाद् उभयोरपि शरीरे चन्दनाऽनुलेपं N २००॥ विधाय रम्याणि वस्त्राणि भगवन्तं भगवज्जननी च परिधापयन्ति । ततः पश्चात् पुनरुत्तरदिशायाः कदलीगृहे भगवन्तं तथा भगवजननी च नीत्वा सिंहासने प्रतिष्ठाप्य तत्र अरणिकाकाष्ठेन अग्निं संपात्य सम्यक चन्दन
For Private and Personal Use Only