________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Railassagarsuri Gyanmandir
चकार, पुनर्नरकस्था जीवा अपि क्षणं यावत् प्रमोदं प्रापुः, पुनर्भगवजन्मसमये सकलापि भूमिरुल्लसिता इव अभूत् । अथ अस्मिन् षट्पञ्चाशदिक्कुमारीणाम् आसनानि कम्पितानि-तदा गजदन्तानां नीचैरधोलोके निवासिन्य अष्टौ दिकुमार्यः अवधिज्ञानेन श्रीमहावीरखामिनो जन्म ज्ञात्वा तत्र आयान्ति, तासां नामानि
भोगंकरा भोगवती सुभोगा भोगमालिनी । तोयधरा विचित्रा च पुष्पमाला अनिन्दिता ॥१॥ एता अष्टौ अधोलोकाद् आगत्य प्रभुं नमस्कृत्य, प्रमोर्मातरं नमस्कृत्य ईशान दिशायाम् एकं सूतिकागृहं चक्रुः, संवर्तकवायुना योजनप्रमाणां पृथिवीं शुद्धाम् , सुगन्धां च चक्रुः । अथ
मेघंकरा मेघवती सुमेघा मेघमालिनी । सुबत्सा वत्समित्रा च वारिषेणा बलाहिका ॥२॥ एता अष्टौ ऊर्ध्वलोकाद् आगत्य जिनं तथा जिनजननीं नत्वा तत्र पुष्पवृष्टिं चक्रुः। अथ पुन:
अथ नन्दोत्तरा नन्दा आनन्दा नन्दवर्धना । विजया वैजयन्ती च जयन्ती चापराजिता ॥ ३॥ एता अष्टौ दिकुमार्यः पूर्वदिशाया रुचकपर्वताद् आगत्य मुखदर्शनार्थम् अग्रतो दर्पणं धारयन्ति । अथ पुन:
समाहारा सुप्रदत्ता सुप्रवुद्धा यशोधरा । लक्ष्मीवती शेषवती चित्रगुप्ता वसुन्धरा ॥ ४ ॥ एता अष्टौ दिकुमार्यो दक्षिणरुचकपर्वताद् आगत्य भृङ्गारकलशहस्ता भगवन्तं भगवद्जननी च स्लपयन्ति । ततः पुन:-इलादेवी, सुरादेवी, पृथिवी, पद्मवती, एकनासा, नवमिका, भद्रा, सीता एता अष्टौ दिककुमार्यः।
For Private and Personal Use Only