________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सजनामा तामाकल्पद्रुम
॥८॥
कलिका वृत्तियुक्तं. व्याख्या.
कल्पसूत्रंभिः मातृपितरौ अग्निना संस्कारितौ । यदा च बालमपि मृतं ज्ञात्वा संस्कारार्थ खजनाः सज्जी बभूवुः । तावत्
तत्र धरणेन्द्रः आगत्य बभाषे । ब्राह्मणरूपेण भूत्वा बालं गृहीत्वा अपुत्रस्य धनग्रहणार्थमागतान राजपुरुषान् निवारयामास । तं बालं सजं चकार, लोकान् उवाच-अनेन बालेन अष्टमं तपः कृतमस्ति । एष बालो जिनशा- सनस्य महाप्रभावनाकारको भविष्यति । तद्वचः श्रुत्वा सर्वेऽपि राजाद्या जना विस्मिता बभूवुः । लोकर्नागकेतु-1 रिति नाम दत्तम् । धरणेन्द्रेण वर्धितो यदा तरुणो बभूव, तदा जिनशासनस्य प्रभावनाकृत् संजातः । इति नागकेतुकथा ॥
यथा जिनशासने इदं पर्व महद् वर्तते, तथा शिवशासनेऽपि अस्य पर्वणः महदु माहात्म्यं वर्तते । तत्र
१. एकदा राज्ञा एकश्चौरो व्यापादितः, स मृत्वा व्यन्तरो जातः, तेनादृशीभूतेन पादेनाहत्य सिंहासनाद् राजा भुवि पातितः, लोकश्च सर्वोऽपि व्याकुलीभूतः, पुनरपि व्यन्तरो नगरोपरि महतीं शिलां विकुळ दुर्वचनेन लोकान् भापयामास । ततो नागकेतुः श्रावकश्चतुर्विधसंघः, जिनप्रासाद-प्रतिमारक्षार्थम् उच्चैः प्रासादोपरि चटित्वा तां व्यन्तरमुक्तां शिलां करेण धृतवान् , तस्य तेजसा व्यन्तरो । हतप्रतापः शिला संहृत्य नागकेतुं नत्वा, राजानं समाधिमन्तं कृत्वा, स्वस्थानं गतः। ततो नागकेतुश्राद्धो राजादीनां मान्यो जातः । अन्यदा नागकेतुः प्रतिमापूजां कुर्वन् पुष्पमध्यस्थेन सर्पण दष्टः, शुभध्याने केवलं ज्ञानं प्राप्तवान , शासनदेव्या च साधुवेषो दत्तः, ततश्चिरकालं | भव्यजीवान प्रतिबोध्य मोक्षं गतः ॥ २. इतरशाखेष्वपि श्रीजिनशासनस्य समुल्लेख उपलभ्यते, अतस्तस्यातिप्राचीनता तथा न चेदं |
।।८
For Private and Personal Use Only