________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परम्-एकविंशतिवारं-श्रीकल्पसूत्रं निसुणन्ति' सम्यक शृण्वन्ति, ते भव्यजीवा लघु शीघ्रम् , “भवार्णवम्-संसारसमुद्रं संतरन्ति ॥ पुनरपि अस्मिन् पर्युषणापर्वणि समागते साधूनां कर्तव्यं प्रोच्यते
संवत्सरप्रतिक्रान्तिः, लुश्चनम् , चाष्टमं तपः । सर्वार्हद्भक्तिपूजा च संघस्य क्षामणाविधिः ॥१॥ एतेषां पश्चानां कारणानामर्थ जिनगणधरैरिदं पर्युषणापर्व स्थापितम् । तानि पञ्च कारणानि इमानि-संवत्स-1 रीप्रतिक्रमणम् , मस्तके लुचनम् , उपवासत्रयकरणम् , सर्वेषाम्-अर्हच्चैत्यानां भावपूजाकरणम् , परस्परं क्षामणाविधिश्च, एतत् साधूनां कर्तव्यम् । श्रावकैरपि जिनेन्द्राणां पूजा कर्तव्या, श्रुतज्ञानस्य भक्तिः, संघस्यापि भक्तिः, परस्परं क्षामणाविधिः, अष्टमं तपः, एतत् कर्तव्यम् , श्रावका अपि कुर्वन्तो मुक्तिं प्रामुवन्ति । अत्र नागकेतुदृष्टान्तः-चन्द्रकान्त्यां नगया विजयसेनो राजा । तत्र नगर्या श्रीकान्तः श्रेष्ठी वसति । तद्भार्या श्रीसखीनाम्नी । तयोः पुत्रोऽस्मिन् पर्वणि-पर्युषणापर्वणि-समागते सर्वेषां लोकानां मुखाद् अष्टमं तपस्करणं श्रुत्वा संजातजातिस्मृतिः अष्टमं तपश्चकार । प्रागजन्मनि अपि सपत्नीजनन्या कृताष्टमतपोनिश्चयस्य रात्रौ सुप्तस्य अग्निः प्रज्वालितः, ततश्च्युत्वा तत्रोत्पन्नोऽस्ति । अतस्तेन बालकेन अष्टमं तपः कृतम् । मातुः स्तन्यपानं न करोति । मूर्छया बालो निश्चेष्टितः संजातः । तदा तन्मोहवशाद् मातृपितरौ हृदयस्फोटनेन मृतौ । खजनसंबन्धि
For Private and Personal Use Only