________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
कल्पसूत्रं
कल्पद्रुम दशाश्रुतस्कन्धोद्धाररूपं श्रीभद्रबाहुखामिविरचितं श्रीसंघाग्रे मङ्गलार्थं व्याख्यायते॥ अथ श्रीकल्पसूत्रश्रवणस्य
कलिका माहात्म्यं वर्णयति
वृत्तियुक्तं. एगग्गचित्ता जिणसासणम्मि पभावणा-पूअपरा नरा जे।तिसत्तवारं निसुणन्ति कप्पं भवण्णवं ते लहु संतरन्ति॥
व्याख्या. N ये मनुष्या एकाग्रचित्ता निश्चलचित्ताः, जिनशासने प्रभावना-पूजासु पराः सावधानाः सन्तः, त्रिसप्तवाजन्दपुरे सांप्रतं नाम्ना वडनगरे ध्रुवसेनो राजाऽभूत् । तस्य पुत्रः सेनाङ्गजो राज्ञोऽतिवल्लभः । स च दैवात् पर्युषणाऽऽगमे मृतः, राजा
अतीवशोकाक्रान्तो जातः । धर्मशालायां नाऽऽगच्छति । तस्य अनागमने 'यथा राजा तथा प्रजा' इति हेतो अन्येऽपि श्रेष्टिव्यवहारिणो लोका नाऽऽगच्छन्ति, ततश्च धर्महानिं जायमानां दृष्ट्वा गुरुभिर्भुवसेनराजसमीपे गत्वा प्रोक्तम् हे राजन् ! त्वयि शोके क्रियमाणे, सर्व | नगरं सदेशं शोकातुरं जातम् । 'शरीरम् अनित्यम् , विभवोऽपि अशाश्वतः, आयुश्च चञ्चलम् , असारः संसारोऽस्ति,' 'न भवादृशां ज्ञात|जिनधर्माणाम् अधिकशोककरणं युक्तम् , 'अथ च भवता लाभः प्रदीयते, अश्रुतं श्रुतं श्रावयामः' श्रीभद्रबाहुस्वामिभिर्नवमपूर्वाद् अष्टमम्| अध्ययनं कल्पसूत्रनामकम्-उद्धृतम् अस्ति । तच्च मङ्गलभूतं महाकर्मक्षयकारकं विशेषशास्त्रं वर्तते । यदि धर्मशालायाम् आगम्यते, तदाता वाच्यते । राज्ञा च अङ्गीकृतम् । ततो राजादिसभासमक्षं नवभिर्वाचनाभिः सप्रभावनाभिः वाचितम् । ततः प्रभृति लोकसमक्षं कल्पसूत्रवाचनप्रवृत्तिर्जाता । १. एकाग्रचित्ता जिनशासने प्रभावना-पूजापरा नरा ये । त्रिसप्तवारं निशृण्वन्ति कल्पम् , भवार्णवं ते लघु | संतरन्ति ।।
For Private and Personal Use Only