________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमे चन्द्रयोगे प्रधाने चन्द्रबले निर्मलासु सर्वासु दिशासु अन्धकारधूम्रिकादिरहितासु अत एव विशेषेण शुद्धासु, जयकारिसर्वशकुनेषु, हर्षितेषु सकलदेशेषु । उत्पात-भूमिकम्प-उल्कापातादिरहिते दिवसे जन्मलग्नम् । सुभिक्षे समये सर्वस्यां पृथिव्याम्, सर्वधान्येषु निष्पन्नेषु महोत्सव-माङ्गलिक्येषु
प्रवर्तितेषु उत्तराफाल्गुनीनक्षत्रे चन्द्रे समागते भगवान् आरोग्यः, माताऽपि आरोग्यवर्तिनी त्रिशला श्रीमहावीरं पुत्रं प्रासूत । अमुकसूरीणामाज्ञायां वर्तमानस्य सङ्घस्य श्रेयः कल्याणम् अस्तु ॥
श्रीकल्पसूत्रवरनाममहागमस्य गूढार्थभावसहितस्य गुणाकरस्य ।
लक्ष्मीनिधेर्विहितवल्लभकामितस्य व्याख्यानमाप परिपूर्तिमिदं चतुर्थम् ॥४॥ इति श्रीकल्पसूत्रकल्पद्रुमकलिकायां श्रीलक्ष्मीवल्लभविरचितायां चतुर्थ व्याख्यानं समाप्तम् ॥
१ संवत् २६९१ वर्षे चैत्रशुदित्रयोदश्याम् १३ मङ्गलवारे उत्तराफाल्गुनीनक्षत्रे रात्रिगतघटी १५ पल २१ समये मकरलग्ने चन्द्रहोरायां जन्मकुण्डलिका शेया ।। श्रीः ।।
For Private and Personal Use Only