SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्रं ॥९७॥ निष्कास्य कारागृहतो वराकान मलीमसान् किं स्नपयामि सद्यः । Bाकल्पद्रुम बुभुक्षितान तानथ भोजयित्वा विसर्जयामि स्वगृहेषु तुष्टा ॥२॥ | कलिका पृथ्वीं समस्तामनृणां विधाय पौरेषु कृत्वा परमं प्रमोदम् । करिष्यधिस्कन्धमधिश्रिताऽहं भ्रमामि दानानि मुदा ददा- वृत्तियुनं. |मि समुद्रपानेऽमृतचन्द्रपाने दाने तथा दैवतभोजने च । इच्छा सुगन्धेषुविभूषणेषु अभूञ्च तस्याः वरपुण्यकृत्यैः॥४॥ व्याख्या त्रिशला मनोरथान् कुरुते-सुपात्रे दानं ददामि, सत्तीर्थानां शत्रुञ्जयादीनां यात्रा करोमि, साधूनां दर्शन | करोमि, देचतानामाराधनां करोमि । पश्चात् कारागृहाद् बन्दिगृहाद् दीनान मनुष्यान् निष्कास्य तान लानं | कारयित्वा सद्यः क्षुधार्तान् भोजनं कारयित्वा, तान् अनाथान् आत्मीयगृहेषु विसर्जयामि । पश्चात् सकलां पृथिवीम् अनृणाम् ऋणेन रहितां कृत्वा, पौरेषु नगरलोकेषु परमं प्रमोदं करोमि । अहं पुनह स्तिनीस्कन्धारूढा सती नगरे हर्षेण भ्रमामि । पुनः समुद्रपानम् अमृतचन्द्रपानं करोमि, दानं ददामि, साधर्मिकान् भोजयामि, सुगन्धान शरीरे धारयामि, विभूषणानि दिव्यानि धारयामि पुण्यकार्याणि करोमि । एतेषु मनोरथेषु ये ये मनोरथाः सिद्धार्थेन राज्ञा पूरयितुं शक्यास्तान सिद्धार्थः पूरयति । यः कश्चित् सिद्धार्थेन पूरयितुम् अशक्यः तं मनोरथं इन्द्र आगत्य पूरयति । एकदा त्रिशलाया इन्द्राण्याः कुण्डलयुगलं बलात्कारेण गृहीत्वा, कोदुत्तार्य स्वकर्णे परिदधामि इति इच्छाऽभूत् सा इन्द्रेण पूरिता । अथ भगवतो जन्मसमयं वर्णयति For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy