________________
Shri Mahavir Jain Aradhana Kendra
क.स. १७
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अदोहला सुसुहेणं आसइ सयइ चिट्ठर निसीअइ तुयहइ विहरइ सुहंसुहेणं तं गब्भं पRas || ९५ ॥
पुनस्त्रिशला कीदृशी ? प्रशस्तदोहदा प्रशस्तानि समीचीनानि दोहदानि मनोरथाः यस्या सा प्रशस्तदोहदा । पुनस्त्रिशला कीदृशी ? संपूर्णदोहदा, पुनः सम्मानितदोहदा यो मनसि अभिलाषः उत्पद्यते तं करोति । पुनः त्रिशला अवमानितदोहदा मनोरथोत्पत्तेः पश्चात् क्षणमपि विलम्बो न कृतः । एतादृशी मनोरथस्य पूर्तिः कृता, पुनरपि तस्याः मनोरथस्य अभिलाषो नोत्पद्यते । व्युच्छिन्नदोहदा सर्ववाञ्छापूर्णा । व्यपनीतदोहदा गतदोहदा, कदापि कोऽपि मनोरथो न भवति, यावन्तो मनोरथास्ते सर्वेऽपि संजाता इत्यर्थः । सुखसुखेन आश्रयं गृह्णाति, आश्रयं गृहीत्वा ऊर्ध्वा भवति । सुखेन कोमलशय्यायां शेते, सुखेन तिष्ठति, सुखेन निषीदति, सुखेन भद्रासनादौ उपविशति, सुखेन 'तुयहइ' इति त्वग वर्तनं करोति-निद्रां बिना शय्यायां लोटते इत्यर्थः । एवं सुखं सुखेन तं गर्भ धारयति । अथ भगवति महावीरे गर्ने स्थिते सति मातुर्यानि दोहदानि उत्पन्नानि तानि लिख्यन्ते
सत्पात्रपूजां किमहं करोमि मत्तीर्थयात्रां किमहं तनोमि । सद्दर्शनानां चरणं नमामि सद्देवताऽऽराधनमाचरामि ॥ १॥
For Private and Personal Use Only