________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्र
॥९६॥
कल्पद्रुम कलिका : वृत्तियुक्त. व्याख्या.
अबीर-कपूर-कस्तूरिकादिकानि शरीरे धारयति, पुनत्रिशला कीदृशी वर्तते ? यस्याः सकाशाद रोग-शोकमोह-मूर्छा-अज्ञानं वा भय-परित्रासाः व्यपगताः दूरं गता इत्यर्थः । पुनर्यत्तस्य गर्भस्य हितकारि भोजनं तदपि मितम् , स्तोकं तदपि पथ्यम्, गर्भस्य हितकारिभोजनं तदपि पथ्यम्, गर्भस्य पोषकं तदपि यस्मिन् देशे योजनं पथ्यम् , यस्मिन् काले यदाहारं योग्यं तद् आहारं करोति, पुनर्विविक्ता एकान्ते स्वमनोज्ञाभिः सखीभिस्समं तिष्ठति, रोषरहिता सती मृदुभिः कोमलशय्या-वस्त्रादिभिः, शरीरसुखं भुनाना प्रतिऋतुसुखाभिः, सर्वलोकेभ्योऽधिकाभिः, मनसः अनुकूलाभिः, मनोरमाभिर्विहारभूमिभिः क्रीडासुखं कुर्वती सुखेन त्रिशला तिष्ठति । पुनरपि त्रिशला एतन्न करोति-दिवाखापं न करोति-दिवास्वापादु गर्भस्थो बालः खापशीलो भवति, बह्वञ्जनाद् अन्धो भवति, रोदनात् चक्षुरोगी भवति, स्नानाऽनुलेपनाद् दुःशीला, तैलाऽभ्यङ्गात् कुष्ठी, नखकतैनात् कुनखी, प्रधावनात् चञ्चल:, हसनात् श्यामदन्तो-ष्ठ-तालु-जिह्वः, अतिजल्पना वाचालः, अतिश्रवणाद् बधिरः, अतिखेलनात् स्खलितगतिः, व्यञ्जनवातप्रक्षेपाद् उन्मत्तः स्याद् अत एव इत्यादिकं परिहरेत् ।। पुनस्त्रिशला एतादृशी तिष्ठति
पसत्थदोहला संपुण्णदोहला संमाणियदोहला अविमाणिअदोहला वुच्छिन्नदोहला ववणी
॥९६॥
For Private and Personal Use Only