________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मन्दं संचर मन्दमेव निगद व्यामुश्च कोपक्रमम् । पथ्यं भुझ्व विधाननीविवमने मा अट्टहासं कृथाः॥ आकाशे न च शेष्व नैव शयने नीचैबहिर्गच्छ मा। देवी गभरालसा निजसखीवर्गेण सा शिष्यते ॥ १ ॥ त्रिशला क्षत्रियाणी गर्भभारेण अलसा सती सखीवर्गेण एवं शिष्यते-हे सम्खि ! त्वं मन्दं मन्दं संचर, हे सखि ! त्वं मन्दं मन्दं जल्प, क्रोधं कस्यापि उपरि मा कुरु, पथ्यं भोजनं कुरु, शाटिकाग्रन्धि दृढां मा बधा|न, बहुहासम् अहहासं मा कुरु, आकाशे मा शयनं कुरु, तथा शय्यां विना भूमौ एव मा शयनं कुरु, नीचभूमिगृहादिषु मा उत्तर, बहिर्ग्रहाद् अन्यद् गृहान्तरं मा व्रज, संपूर्णेषु मासेषु त्रिशलायै सम्वीवर्ग एतादृशीं शिक्षां ददाति । पुन:
सबत्तुगभयमाणसुहेहिं भोयणच्छायणगंधमल्लेहिं ववगयरोगसोगमोहभयपरिस्समा जं तस्स गब्भस्स हिअं मियं पत्थं गब्भपोसणं तं देसे अ काले अ आहारमाहारेमाणी विवित्तमउए
हिं सयणासणेहिं पइरिक्कसुहाए मणोऽणुकूलाए विहारभूमीए | सर्वऋतुषु यानि यानि पथ्याऽऽहाराणि कथितानि तानि आहाराणि त्रिशला करोति, पुनर्यद्वस्तु भुज्यमानं सुखदायक भोजनम् तथा छादनं यत्र ऋतौ यद्स्त्रं शरीरसौख्यदं तद्वस्त्रं परिदधाति, पुनर्गन्धद्रव्याणि पुष्प
For Private and Personal Use Only