SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra कल्पसूत्रं ॥ ९३ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुखाय कृतं तदेव दुःखाय संजातम्, यथा-नालिकेरस्य जले शीतलतायै प्रक्षिप्तं कर्पूरं विषाय भवति तथाऽत्र मत्कृतं हितं मातुरहिताय जातम्, अहो !! अदृष्टेऽपि मयि मातृपित्रोरेतादृशो रागो वर्तते, यदा माम् एतौ मज्जननी जनकौ विलोकयिष्यतः तदा कीदृशौ मोहयुक्तौ भविष्यतस्तन्न जाने, ततो मातृपित्रोर्जीवतोः सतोरहं दीक्षां न ग्रहीष्यामि कदाचिद् एतयोर्जीवतोः अहं दीक्षां गृह्णामि तदा तु एतौ म्रियेते एव इति ज्ञात्वा, अनयोर्जीवतोः मया न प्रव्रज्या ग्राद्या इति अभिग्रहो जनन्या गर्भस्थेन एव कृतः श्रीमहावीरेण । पश्चात् श रीरस्य एकदेशः संचालितः । ततः सा त्रिशला क्षत्रियाणी तं गर्भम् एजन्तम्, वर्धन्तम्, स्फुरन्तं ज्ञात्वा हर्षिता, संतुष्टा, हृतहृदया संजाता सती एवम् अवादीत् - हे सख्यः ! नो खलु मे गर्भः केनाऽपि हृतः, नो मे गर्भो मृतो यावद् नो गलितः । पूर्वं न ऐजत् न स्फुरति स्म, इदानीम् एजते, स्फुरते कल्याणं मम गर्भस्य, अहं भाग्यवती अस्मि, पुण्याहम्, त्रिभुवन मान्याऽहम्, श्लाघ्यं मे जीवितम् । श्रीपार्श्वनाथो जिनो मम प्रस नोऽस्ति ममोपरि श्रीगुरवोऽपि प्रसन्नाः सन्ति, फलितो मे आजन्माऽऽराधितः श्रीजैनधर्मः, संजाता मे गोत्रदेव्योऽपि सुप्रसन्नाः । एवं त्रिशलाया रोमराजी उल्लसिता, नेत्रकमले विकसिते, मुखकमलम् अपि विकसितम् इत्यादि त्रिशलाया हर्षस्वरूपं दृष्ट्वा वृद्धस्त्रिय आशीर्वाद ददति, सधवा नाय गीतगानं चकुः पणाङ्गनानां नाटकं प्रवर्तितम्, सर्वत्र नगरमध्येऽष्टमङ्गलिकानि स्थापितानि, स्थाने स्थाने कुङ्कुमछटा प्रदत्ता, नगरमध्ये ध्वजाः For Private and Personal Use Only कल्पद्रुम कलिका वृत्तियुक्त. व्याख्या. ४ ॥ ९३ ॥
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy