SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यन्त्र-शान्तिक-पौष्टिककर्माणि चक्रुः । काचिद् नैमित्तिकं पप्रच्छ । नाटकं गीतगानं वादिवादिकं सर्वमपि राजसभायां निषिद्धम् । उच्चैः खरेण न कोऽपि जल्पति, राजा सिद्धार्थोऽपि सशोको बभूव, सर्वोऽपि राजलोकः किंकर्तव्यतामूढो जातः, राजमन्दिरं सर्व शून्यमिव आसीत्, नगरी सर्वाऽपि शोकस्य राजधानी इव जाता, राजगृहं दुःखानां भाण्डागारम् इव अभूत् ; उद्वेगस्य आकरम् इव लान-वादन-पान-दान-जल्पन-शयनादिकं सर्वमपि विस्मृतम्, कश्चित् किश्चित् पृच्छति तदा निःश्वासैः एव उत्तरदानं भवति, अश्रुपातैरेव मुखप्रक्षालनं संजायते स्म, सर्वजनः शून्यचित्तः तिष्ठति, एतादृशं सर्वं क्षत्रियकुण्डग्राम नगरं बभूव । तए णं से समणे भगवं महावीरे माऊए अयमेयारूवं अन्भत्थिअं पत्थिों मणोगयं संकप्पं समुप्पन्नं वियाणित्ता एगदेसेणं एयइ, तए णं सा तिसला खत्तियाणी हट्टतुट्ठा जाव-हयहि__ अया एवं वयासी-॥ ९३ ॥-नो खलु मे गब्भे हडे, जाव-नो गलिए, मे गब्भे पुर्वि नो एयइ, इयाणिं एयइ त्ति कटु हट्ट जाव एवं विहरइ, ततः श्रमणो भगवान महावीरो मातुः एतादृशम् अभ्यर्थितं मनोगतं दुःखसंकल्पं समुत्पन्नं विज्ञाय अवधिज्ञानेन मनसि चिन्तितवान्-किं क्रियते, कस्याऽग्रे कथ्यते, मोहस्य कीदृशी गतिर्वर्तते । मया तु मातुर्हिताय, For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy