SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्रं ॥९२॥ कादीनां बालवियोगः कृतो भविष्यति । अथवा कासांचित् स्त्रीणाम्, अथवा सपत्नीनां पुत्राणाम् उपरि अङ्गुलीमोटनं क्रोधेन कृतं भविष्यति । अथवा धर्मवुद्ध्या काकाऽण्डानि स्फोटितानि भविष्यन्ति । अथवा कलिका वृत्तियुक्त. ऋषयः संतापिता भविष्यन्ति । अथवा स्त्रीभ्यो गर्भपातः कृतः, कारितो भविष्यति वा । अथवा शी व्याख्या. लखण्डना कृता, कारिता वा भविष्यति, तेषां दुष्टपापकर्मणां फलविपाको जातः । पुनरपि दैवम् उपालभते-रे रे दैव! निर्दय ! निघृण ! पापिष्ठ ! दुष्ट ! धृष्ट ! निष्ठुर ! निकृष्टकर्मकारक! निरपराधजनमारक ! मूर्तिमत्पातक ! विश्वासघातजनक ! अकार्यसज्ज ! निर्लज ! किमर्थ निष्कारणवैरी भवसि, मया तव कोऽपराधः कृतः ? त्वं प्रकटीभूय बद । एवं विलापं कुर्वती त्रिशलां प्रति सख्यः पृच्छन्ति-हे सखि ! त्वं किमर्थम् एतादृशं दुःखं करोषि ? तदा त्रिशला निःश्वासपूर्वकं वदति-हे सख्यः! किं वदामि, कथन-IN योग्या काऽपि वार्ता नास्ति । अहं मन्दभाग्याऽस्मि, मज्जीवितं गतम् , एवम् उक्त्वा मूर्छया भूमौ पपात । तदा पार्श्ववर्तिन्यः शीतलोपचारं कृत्वा त्रिशलां सज्जां कुर्वन्ति, तदा पुनरपि विलपति, कदाचित् शून्यचित्ता सती चिरं तिष्ठति । सख्यो महुर्मुहुः पृच्छन्ति, तदा रुदती सती गर्भस्य स्वरूपं वदति-पुनर्मूछति, तदा तत्वरूपं ॥१२॥ श्रुत्वा सर्वोऽपि राजलोकश्चिन्तातुरो बभूव, हाहाकारो जातः। तदा काचित् सखी बदति-हे कुलदेव्यः यूयं ! क. गताः, वयं सर्वदा त्वदीयपूजायां सावधानाः तिष्ठामः, तदा पुनर्याः काश्चित् कुलवृद्धाः सन्ति ताः मन्त्र-तन्त्र For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy