________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आकृष्य गृहीतम्, अनेन दैवेन मेरौ अहम् आरोप्य भूमौ पातिता, रे दैव !! मया तव किम् अपराद्धम् ? अहं किं करोमि ? कुत्र गच्छामि ? कस्याऽग्रे गत्वा पूत्कारं करोमि ? अनेन पापिष्ठेन दैनेन यत्कृतं तत् कोऽपि शत्रुरपि न करोति, अनेन राज्येनाऽपि सृतम्, पूर्वोक्तैश्चतुर्दशमहाखनैः सूचितम्, त्रैलोक्यपूजितम्, अनन्तगुणैः सहितम्, दूषण रहितम्, तद्रत्नं विना मे सर्वमपि शून्यम् । अथवाऽत्र दैवस्य दृषणं नास्ति, मया एव पूर्वजन्मनि यद् महापातकं कृतं तस्यैव फलम् इदं जातम् । यदुक्तं कर्मविपाके
सु-पक्खि माणसाणं वाले जो वि हु विओअए पावो । सो अणवच्चो जायइ अह जायइ तो विवज्जिज्जा ॥ १ ॥ पशूनां गो-महिषी-हरिणाम्बानां बालकाः येन वियोजिता भवन्ति, तथा यः पापिष्ठः पक्षिणां शुक-मयूरतित्तिर- सारिकादीनां बालकान् वियोजयति स पुरुषोऽनपत्यो भवति-निस्सन्तानो भवति, चेत् सन्ततिर्भवति तदा म्रियते । अथवा मया पापया पञ्चाद् जन्मनि महिषीभ्यः पडकाः त्याजिताः, लघूनां वत्सानां दुग्धलोभाद् दुग्धान्तरायः कृतो भविष्यति । अथवा उन्दुराणां बिलेषु उष्णनीरम्, तथा धूम्रः प्रदत्तो भविष्यति ते मृता भविष्यन्ति । अथवा तेषां विलानि पाषाणैर्मुद्रितानि, चूर्णादिना प्रलिप्तानि भविष्यन्ति । अथवा कीटिकानां बिलानि साण्डकानि, मत्कोटकानां विलानि जलेन प्लावितानि भविष्यन्ति । शुक-मारस-चीडा- वर्ति
१ पशु-पक्षि- मनुष्याणां बालान्, योऽपि खलु वियोजयति पापः । सोऽनपत्यो जायते, अथ जायते ततो विपद्येत ।।
For Private and Personal Use Only