SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्रं ॥९१॥ ना श्रीमहावीरेण चिन्तितम्-अन्येषां जननी गर्भवती तदा कुक्षौ गर्भः स्फुरति, तदा जनन्याः उदरे व्यथा कल्पद्रुम भवति, तेनाऽहं निश्चलः, निष्पन्दः तिष्ठामि, येन मे जननी सुखीभवति । ततो मातुर्गर्भ निश्चलः श्रीमहा- कलिका वीरोऽतिष्ठत् , एकस्मिन् प्रदेशे आलीनः प्रलीनोऽभवत् , ततः तस्याः त्रिशलाक्षत्रियाण्याः एतादृशो मनसि वृत्तियुक्त. संकल्पः समुत्पन्न:-स मम गर्भः केनाऽपि दुष्टदेवेन हृतः, अथवा स मम गर्भो मृतः, अथवा स मे गर्भः । व्याख्या. श्युतः-गर्भस्थानादु भ्रष्टः, अथवा स मे गर्भो गलितः-क्षरित्वा गतः, एष मे गर्भः पूर्व स्फुरन् इदानीं नो स्फुरति, तस्माद् मम गर्भस्य कुशलं नास्ति । मनसि कालुष्यम् उत्पन्नम्, त्रिशला उपहतमनःसंकल्पा जाता, |चिन्ताशोकसमुद्रे प्रविष्टा, करतले स्थापितमुखी, भूमौ स्थापितमुखी-भूमौ स्थापितदृष्टिः सती एवं ध्यायति स्म-1 ___ यदि सत्यमिदं जज्ञे गर्भस्याऽस्य कथंचन । तदा नूनमभाग्याऽहं भूमौ निष्पुण्यकाऽवधिः ॥१॥ | त्रिशला मनसि एवं चिन्तयति-यदि मम गर्भस्य कुशलं नास्ति-गर्भो हतः, मृतः, श्युतः, गलितो वा इदं सत्यं जातं तदा निश्चयेनाऽहं महाऽभाग्या-पृथिव्याम् अहम् एव एका पापा, अधर्मा । यत उक्तं पण्डितैःअभाग्यानां गृहे चिन्तामणिन तिष्ठति, दरिद्राणां गृहे निधानं न प्रकटीभवति, कल्पवृक्षो मरुस्थले न उद्गच्छ- ॥९१ ॥ |ति, अल्पपुण्यानां मनुष्याणाम् अमृतपानस्य इच्छा न पूर्णा संजायते । हा धिम् दैवम् , एतत् त्वया किं कृतम् ? मम मनोरथवृक्षः ममूलम् उन्मूलितः, पूर्व नेत्रं दत्त्वा पश्चाद् उद्दाल्य गृहीतम् , निधानं दर्शयित्वा पश्चाद् For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy