SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra कल्पसूत्रं ॥ ८६ ॥ www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir वति, सुग-घृणां कृत्वा सुसो भवति, भयं कृत्वा सुप्तो भवति तदा यः खनो दृष्टो भवति स सर्वोऽपि विफलः स्यात् । पुनर्यो मनुष्यः क्षुधितो भूत्वा, तृषितो वा, मूत्रस्य आबाधया, तथा पुरिषस्य आवाधया सुप्तः स्वमं | पश्यति सोऽपि निष्फलः । अथ रात्रेः प्रथमप्रहरे दृष्टः खनो वर्षेण फलदो भवति । द्वितीये प्रहरे दृष्टः षष्ठे मासे फलदः । तृतीये महरे दृष्टः तृतीये मासे फलदः । चतुर्थप्रहरे दृष्ट एकमासे फलदः । पाश्चात्यरजन्याम्अन्त्ये घटिकाद्वये दृष्टः खमः दशदिवसे फलदः । सूर्योदयवेलायां दृष्टः खप्मः तत्कालफलदायको भावी । अथ | पुनः खमानां नव प्रकाराः सन्ति, ते उच्यन्ते अनुभूतः श्रुतो दृष्टः प्रकृतेश्च विकारतः । खभावाच्च चिन्तासंततिसंभवः तथा च देवोपदेशोत्थः ॥ १ ॥ धर्मकर्मप्रभावोत्थः पापोद्रेकसमुद्भवः । एवं खमविचारो हि कथितो नवधा नृणाम् ॥ २ ॥ मनुष्याणां नवभिः प्रकारैः स्वमदर्शनं जायते, तद्यथा - अनुभूताम् - सम्यगभ्यस्तां वार्तां पश्यति, श्रुतां वार्तां पश्यति, दृष्टं वस्तु पश्यति; प्रकृतिविकारात्, वायुप्रकोपात् पश्यति, सहजखभावात् पश्यति, चिन्तायां पश्यति एतैः कारणैर्यत् शुभाशुभं पश्यति तन्निष्फलम् । देवानां सांनिध्यात्, धर्मप्रभावात् पापप्रभावात् यत् पश्यति तत् शुभाशुभं फलं स्यात् । एवं तैः स्वलक्षणपाठकैः सिद्धार्थस्य राज्ञोऽग्रे स्वम विचारो निवेदितः । For Private and Personal Use Only कल्पद्रुम कलिका वृत्तियुक्तं. व्याख्या. ४ ॥ ८६ ॥
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy