________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
स्य दर्शनात् पृष्ठे भामण्डलदीप्तियुक्तो भविष्यति । ध्वजदर्शनाद् अग्रे धर्मध्वजः चलिष्यति । कलशदर्शनाद् ज्ञान-धर्मादिसंपूर्णो भविष्यति, भक्तानां मनोरथपूरकश्च । पद्मसरोदर्शनाद् देवा अस्य विहारकाले चरणयोरधः स्वर्णानां पद्मानि रचयिष्यन्ति । क्षीरसमुद्रदर्शनाद् ज्ञान-दर्शन-चारित्रादिगुणरत्नानाम् आधारः, धर्ममर्यादाया धर्ता च भविष्यति । देवविमानदर्शनात् खर्गवासिनां देवानां मान्यः, आराध्यश्च भविष्यति । रत्नराशिदर्शनात् समवसरणस्य वप्रत्रये स्थास्यति । निघूमाऽग्निदर्शनाद् भव्यजीवानां कल्याणकारी, मिथ्यात्वशीतहारी च भविष्यति। अथ सर्वेषां खमानां फलं वदन्ति-हे राजन् ! एतेषां चतुर्दशस्खमानाम्-अवलोकनात् चतुर्दशरज्वात्मलोकस्य मस्तके स्थास्यति । यत्र अयम् एव विशेष:-चक्रवर्तिजननी चतुर्दश स्वमान् पश्यति, परंतीर्थकरजननी अतीव निर्मलतरान् पश्यति। अथ तेस्खमलक्षणपाठकाः सिद्धार्थस्य राज्ञोऽग्रे खमानां निदानं वदन्ति
अतिहास-शोक-कोपो-स्साह-जुगुप्साभयाद्भुतोत्पन्नःवितथःक्षुधा-पिपासा-मूत्र-पुरीषोद्भवः खनः॥शा खनः प्रथमप्रहरे दृष्टः संवत्सरेण फलदः स्यात् । संवत्सरार्ध फलदो द्वितीययामे तु यामिन्याः॥२॥ मासत्रयेण रात्रेस्तृतीययामे नृणां स्फुटं फलदः । मासैकफलो दृष्टः चतुर्थयामे भवेत्स्वप्नः ॥ ३ ॥ चरमनिशाघटिकाद्वयसमये फलति ध्रुवं दशाहेन । सूर्योदये तु दृष्टः सद्यः फलदायकः स्वप्नः ॥४॥ अतिहास्यं कृत्वा सुप्तो भवति, अतिशोकं कृत्वा, अतिकोपं कृत्वा सुप्तो भवति, अधिकोत्साहे प्रसुप्तो भ-IN
For Private and Personal Use Only