________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्र ||करः, एतादृशः पुत्रो भविष्यति । पुन: स पुत्रः कीदृशो भविष्यति ? सुकुमालपाणि-पादः, अहीनप्रतिपूर्णपश्चे- कल्पद्रुम
न्द्रियशरीरः, लक्षण-व्यञ्जन-गुणोपेतः, मानो-न्मानप्रमाणप्रतिपूर्णसर्वाङ्गसुन्दरः, चन्द्रवत् सौम्याकारः, कान्तः, कलिका प्रियदर्शनः, सुरूपो दारकः पुत्रो भविष्यति । स च पुनारकः पुत्रः उन्मुक्तवाल्यभावो यदा भविष्यति पठन- वृत्तियुक्तं. योग्यो भविष्यति तदा विज्ञानानि दर्शनमात्रेण ग्रहीष्यति। यदा यौवनवयोयुक्तो भविष्यति तदा शूरः सङ्काम-IN
व्याख्या. विषये तथा दानविषये शूरोभविष्यति।वीरोऽभङ्गः संग्रामे अरीणाम्-अजेयोभविष्यति। विक्रान्तो विक्रमी परकीयाम् अपि भूमिकां जित्वा खवशीकरिष्यति । विस्तीर्ण-विपुलबल-वाहनो राज्यपतिश्चक्रवर्तिराजा भविष्यति, अथवा राग-द्वेषादिशत्रूणां जेता त्रैलोक्यनाथस्तीर्थकरो भविष्यति । तस्मात् कारणाद् हे राजन् ! त्रिशलया क्षत्रियाण्या समीचीनाः, प्रधानाःखमाः दृष्टाः, आरोग्य-तुष्टि-दीर्घायुषां कारः।ये रोगिणः, अल्पायुषः, दरिद्राः,N भाग्य-पुण्यहीना भवेयुस्ते एतादृशान् खमान् न पश्यन्ति इत्यर्थः । अथ तेषां स्वप्नानां पृथक पृथक् फलं वदन्तिहे राजन् ! चतुर्दन्तगजावलोकनात् चतुर्धा धर्मोपदेष्टा भविष्यति । वृषभदर्शनाद् भरतक्षेत्रे सम्यक्त्वबीजस्य वप्ता भविष्यति । सिंहदर्शनाद् अष्टकर्मगजान विद्रावयिष्यति । लक्ष्मीदर्शनात् संवत्सरदानं दत्त्वा पृथ्वी प्रमु- nen दितां करिष्यति, तीर्थकरलक्ष्मीभोक्ता च भविष्यति । पुष्पमालादर्शनात् त्रिभुवनजना अस्य आज्ञा शिरसि धारयिष्यन्ति । चन्द्रदर्शनात् पृथिवीमण्डले सकलभव्यलोकानां नेत्र-हृदयाऽऽल्हादकारी च भविष्यति । सूर्य
For Private and Personal Use Only