SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्र. ॥८ ॥ कल्पद्रुम कलिका वृत्तियुक्त. व्याख्या. त्मन उत्तरपूर्वस्यां दिशि ईशानकोणे अष्टौ भद्रासनानि स्थापयति, वस्त्रेण समाच्छादयति, दूर्वा-सर्षपैः कृतमङ्गलानि तानि भद्राऽऽसनानि सन्ति । ततः पुनः आत्मनः सकाशाद् न दूरवर्तिनी, न च निकटवर्तिनी प्रतिच्छदारचयति । सा च परिच्छदा कीदृशी अस्ति ? या नानाविधमणिरन्तैमण्डिता, अधिकप्रेक्षणीययोग्या, बहुमूल्या, वरं प्रधानं यत् पत्तनं सम्यग वस्त्रोत्पत्तिस्थानं तत्र उत्पादिता । अत्यन्तं निग्धा रचना, शतचित्रश्चित्रिता। तानि कानिचित्राणि सन्ति? ईहामृगाः मृगविशेषाः, वृका वा गवयाः, वृषभाः, गावः, तुरगाः,नराःमनुष्याः, मकरा जलजन्तुविशेषाः, विहगाः पक्षिणः, व्यालाः सर्पाः, किन्नरा देवविशेषाः, रुरवः कस्तूरिकामृगाः, शरभा अष्टापदाः, चमरी गौर्विशेषो मृगविशेषो वा, कुञ्जराः हस्तिनः, वनलता पद्मलता इत्यादीनि अनेकचित्राणि | यस्यां परिच्छदायां विराजन्ते । जवनिका शब्देन परीचिः अन्तराले विस्तारयति, परीचिं विस्तार्य तन्मध्ये | नानाविधमणि-रत्नानां भक्त्या चित्रितम् आस्तरेण युक्तम् । तद् अस्तरणं कीदृशं मृदु मसूरनामवस्त्रविशेष तेनाऽच्छादितम् , श्वेतवस्त्रेण उपरि आच्छादितं सुकोमलम् अङ्गस्य सुखस्पर्श विशिष्टं त्रिशला क्षत्रियाण्या उपवेशनाय भद्रासनं प्रस्थापयति, भद्रासनं प्रस्थापयित्वा-॥६३ ॥ कोडुंबिअपुरिसे सदावेइ, सद्दावेत्ता एवं वयासी-॥ ६४ ॥ खिप्पामेव भो देवाणुप्पिआ ! ॥८ ॥ For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy