SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra क.स. १४९ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आभरणानि मुद्रिकादीनि परिधृतानि । नानाविधमणि-रत्नरचितबहुमूल्यकटकादिवाह्वाऽऽभरणैः, त्रुटितैः, केयूरैस्तम्भितभूजो जातः । सिद्धार्थो भूपोऽधिकरूपश्रिया युक्तः । अथ श्रीसिद्धार्थभूपस्य आभरणानि उच्यन्ते - कुण्डलाभ्यां मुखं विराजते, पुनः मुकुटेन मस्तकं दीप्यते, हारेणाऽऽच्छादितहृदयः, मुद्रिकाभिः पिशङ्गवर्णीकृताऽङ्गुलिकः, महर्घं बहुमूल्यम् पत्तने निष्पन्नम् अतीव उत्तमं वस्त्रं तस्य उत्तरासङ्गं कृतम्, नानाविधमणि-रत्न-स्वर्णर्जदितः, तथा चतुरकारूकेण रचितो यो वीरवलयः स च बाहौ घृतोऽस्ति । वीरवलयस्तु स उच्यते-यो वीरपुरुषैः सुभटैः अजेयैर्धार्यते । किं बहुना । श्रीभद्रबाहुखामी वदति - का बहुवर्णना क्रियते सिद्धार्थो राजा आभूषणैर्विभूषितः साक्षात् कल्पवृक्ष इव विराजते स्म, यथा कल्पवृक्षः पुष्पैः पत्रैर्विराजते । तथा सिद्धार्थो राजाऽऽभूषणैः, वस्त्रैश्च शोभते इत्यर्थः । तथा कोरण्टकवृक्षपुष्पाणां मालाभिर्विराजमानं छत्रं मस्तके सिद्धार्थभूपस्य विराजते । पुनः अत्युज्वलैः श्वेतचामरैर्विराजमानः । पुनर्लोकैर्जयजयशब्देन उच्चार्यमाणो यं यं राजा विलोकयति स स पुरुषः सिद्धार्थं राजानं जयजयशब्दं वदति इत्यर्थः । अथ यदा राजा सिद्धार्थो महाडम्बरेण पुरुषसंबन्धिषोडशशृङ्गाराणि धृत्वा सभामण्डपे आयाति तदा के के साथै समागताः सन्ति ते उच्यन्ते I अगगणनायग-दंडनायग - रायईसर - तलवर - माडंबिअ - कोडुंबिअ - मंति- महामंति - गणग For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy