________________
Shri Mahavir Jain Aradhana Kendra
कल्पसूत्रं
॥ ७६ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ततः सिद्धार्थों राजा कल्यप्रादुर्प्रभाते जाते सति, रजन्यां गंतायां सत्यां प्रकाशे जाते सूर्य उद्गतः । स सूर्यो यदा उद्गतस्तदा किं किं जातं तत् कथ्यते-सरोवरेषु प्रफुल्लितानि कमलानि । तथा रजन्यां यानि कृष्णमृगाणां नेत्राणि निद्रया मीलितानि तानि अपि प्रभातसमये विकखराणि जातानि । यथा पाण्डुरे श्वेतवर्णे प्रभाते जाते सूर्य उगच्छन् ईदृशो रक्तवर्णो राजते । स रक्तवर्णः कीदृश: ? रक्ताशोकवृक्षस्य यादृशः प्रकाशो भवति, प्रफुल्लितस्य किंशुकवृक्षस्य यादृशी शोभा भवति, शुकमुखवत्, गुञ्जाया अर्धवद् एतेषां पदार्थानां यदूरक्तत्वं ततोऽपि अधिकं रक्तत्वं राजते। पुनरपि कीदृशोऽस्ति बन्धुजीवक-रक्तपुष्पविशेषवत्, तथा पारावतपक्षिणश्चरण - नयनवद् आरक्तः, तथा परभृता- कोकिला तस्या नेत्रवत्, तथा जासूकुसुमवत्, तथा सुजात्यहिङ्गुलकपुञ्जवत्, तथा एभ्योऽपि अधिकरक्तवर्णस्तेन विराजमानः श्रीसूर्य उगतः । पुनरपि सूर्यः कीदृशोऽस्ति ? कमलाऽऽकरेषु, हदेषु यानि कमलानि सन्ति तेषां प्रबोधकोऽस्ति । तस्य सूर्यस्य किरणैरन्धकारे प्रहृते सति बालेन आतपेन कृत्वा ज्ञायते, कुङ्कुमेन सकलं जीवलोकं पूरितमिव जातम् । पुनः स सूर्यः कीदृशोऽस्ति ? यस्य सूर्यस्य सहस्रकिरणानि सन्ति । पुनर्यः सूर्यो दिनस्य कारकोऽस्ति । तेजसा जाज्वल्यमानो जातस्तदा स सिद्धार्थो राजा शय्यात उत्थाय पादपीठोपरि पदं ददाति, ततः पादपीठाद् उत्तरति, उत्तीर्य - ॥ ६० ॥
जेणेव अट्टणसाला तेणेव उवागच्छइ, उवागच्छित्ता अट्टणसालं अणुपविसइ, अणुपवि
For Private and Personal Use Only
कल्पद्रुम कलिका
वृत्तियुक्तं,
व्याख्या. ४
॥ ७६ ॥