________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
| अन्येभ्योऽपि यूयं कारयत । पश्चात् तत्र सभामण्डपे सिंहासनं स्थापयत एवं ममाज्ञां कृत्वा पश्चाद् ममाऽऽज्ञा| ददत-पश्चात् प्रत्यर्पयत ॥ ५८॥ ततस्ते कौटुम्बिकपुरुषाः सिद्धार्थेन राज्ञा एवम् उक्ताः सन्तो हर्षिताः, तुष्टाः, हतहृदयाः, प्रफुल्लितहदया संजाताः । द्वावपि हस्तौ संयोज्य वन्दनां कृत्वा एवम् अवादिषुः-हे खामिन् ! युष्माभिः अस्माकं य आदेशो दत्तः स चाऽस्माभिः प्रमाणीकृतः। एवं कृत्वा ते आदेशकारिपुरुषाः सिद्धार्थस्य राज्ञः सकाशात् प्रतिनिस्सरन्ति, प्रतिनिष्कामन्ति, प्रतिनिष्क्रम्य राज्ञः सर्वाम् आज्ञां कृत्वा राज्ञः समीपम् आगत्य एवं वदन्ति-हे महाराज ! अस्माकं या आज्ञा दत्ता आसीत् , तां सर्वा कृत्वा समागताः स्म ॥ ५९॥ तए णं सिद्धत्थे खत्तिए कल्लं पाउप्पभायाए रयणीए फुल्लप्पलकमलकोमलम्मीलियंमि अहापंडुरे पभाए, रत्तासोगप्पगास-किंसुअ-सुअमुह-गुंजद्धराग-वंधुजीवग-पारावयचलण-नयणपरहुअसुरत्तलोअण-जासुअणकुसुमरासि-हिंगुलनिअरातिरेगसीहंतसरिसे कमलायरखंडवोहए उद्विअम्मि सूरे सहस्सरस्सिम्मि दिणयरे तेअसा जलंते, तस्स य करपहरापरद्धम्मि अंधयारे वालायवकुंकुमेणं खचिों व जीवलोए, सयणिज्जाओ अब्भुटेइ ॥ ६॥ अभुट्टित्ता पायपी. ढाओ पच्चोरुहइ, पच्चोरुहित्ता ।
For Private and Personal Use Only