________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मनः प्रियचिन्तकाभिः, पुनरुदाराभिः-वर्ण-खरोचारेण स्फुटाभिः । पुनः कल्याणाभिः-समृद्धिकराभिः । पुनः शिवाभिः-निरुपद्रवाभिः । धन्याभिः-धनलाभकराभिः । माङ्गल्याभिः-माङ्गल्यवादिनीभिः । पुनः सश्रीका-2 मिः-अलङ्कारादिशोभायुक्ताभिः । हृदयगमनीयाभिः-हृदये या गच्छन्ति कोमलत्वात् , सुयोधकत्वाच हृदयगामिनीभिः । पुनः हृदयप्रह्लादिकाभिः-यासां वाणीनां श्रवणाद् भर्तुहृदयमानन्दं धत्ते । पुनर्मुदु-मधुरमञ्जलाभिः-मृदुः-कोमलाः, मधुराः-रसवत्यः, मत्रुलाः-संपूर्णोच्चाराः । अथवा मित-मधुर-मञ्जलाभिः, मिताः पद-वर्णादितः स्तोकाः । बह्वार्थाः-ताभिर्वाणीभिस्त्रिशलाखभर्तारं जागरयति इत्यर्थः ॥ ४८ ॥
तए णं सा तिसला खत्तिआणी सिद्धत्थेणं रण्णा अब्भणुण्णाया समाणी नानामणि-कणग-रयणभत्तिचित्तंसि भद्दासणंसि निसीयइ, निसीइत्ता आसत्था, वीसत्था, सुहासणवरगया सिद्धत्थं खत्तिअंताहिं इट्ठाहिं, जाव-संलवमाणी, संलवमाणी एवं वयासी-॥ ४९ ॥ ततः सा त्रिशला क्षत्रियाणी सिद्धार्थेन राज्ञा अभ्यनुज्ञा-दत्ताऽऽज्ञा सती नानामणि-कनक-रत्नभक्तिचित्रेमणि-कनक-रत्नजटिते, भद्रासने-सुखासने निषीदति, निषद्य च 'आसत्था'-दूरीकृतमार्गाऽऽगमनखेदा Hi
For Private and Personal Use Only