SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra कल्पसूत्रं ॥ ७० ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धत्थे खत्तिए तेणेव उवागच्छइ, उवागच्छित्ता सिद्धत्थं खत्तिअं ताहिं इट्टाहिं, कंताहिं, पियाहिं, मन्नाहिं, मणोरमाहिं, उरालाहिं, कल्लाणाहिं, सिवाहिं, धन्नाहिं, मंगलाहिं, ससिरीयाहिं, हिययगमणिजाहिं, हिययपल्हायणिजाहिं, मिउ-महुर - मंजुलाहिं गिराहिं संलवमाणी २ पडिवो ॥ ४८ ॥ ततश्चतुर्दश खमावलोकानाऽनन्तरं सा त्रिशला क्षत्रियाणी एतादृशान् पूर्वोक्तान् चतुर्दश महाखमान् दृष्ट्वा प्रतिबुद्धा सती, हृष्ट-तुष्टहृदया मेघधाराहतकदम्बपुष्पम् इव समुच्छ्वसितरोमकूपा सती च स्वप्नचिन्तनं करोति । यथानुक्रमं खमान् स्मरन्ती खप्रग्रहं कृत्वा च शयनीयाद् अभ्युत्तिष्ठते, अभ्युत्थाय च पादपीठे प्रत्यवरोहते, पादपीठात् प्रत्यवरुह्य चाऽत्वरितम् - मानसिकोत्तालरहितम् । अचपलम् - कायचापल्यरहितम् । असंभ्रान्तम्-स्खलनादिरहितम् । अविलम्बितया, भित्ताद्यवष्टम्भरहिततया । राजहंसी सदृश्या गत्या यत्रैव शयनीये सिद्धार्थः क्षत्रियः सुप्तोऽस्ति, तत्रैवोपागच्छति, उपागत्य च सिद्धार्थं क्षत्रियं यादृशीभिर्गीर्भिः- वाणिभिर्जागरयति, ता वाणीः वर्णयन्ति । कथंभूताभिर्गीर्भिः ? 'इहाहिं' इति इष्टाभिः सिद्धार्थस्य वल्लभाभिः कान्ताभिः सिद्धार्थेन सदा वाञ्छिताभिः । पुनः प्रियाभिः -द्वेषरहिताभिः । पुनर्मनोज्ञाभिः -सर्वेषां भर्तुर्वा मनोज्ञाभिः । पुनर्मनोरमाभिः - For Private and Personal Use Only कल्पद्रुम कलिका वृत्तियुक्तं. व्याख्या. ३ ॥ ७० ॥
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy