________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गम्भीरो देवदुन्दुभीनां रवः-शब्दो वर्तते । ज्ञायते तद् विमानं देवदुन्दुभीशब्देन सकलं जीवलोकं संसार पूरयति इव । पुनर्यद् विमानं कृष्णागरुः, प्रवरः कुन्दुरुक्कशब्देन, चीडः, तुरुक्कशब्देन सेल्हारस एतेषां धूपस्य धूपेन मघमघायमानं वर्तते । पुनर्यस्मिन् विमाने सदैव उद्योतो वर्तते । देवानां योग्यम् । सदैव शान्तियुक्तम् , एतादृशं विमानं त्रिशला क्षत्रियाणी पश्यति ॥ १२॥ ४४ ॥ अथ रत्नराशिस्वप्नं वर्णयतितओ पुणो पुलग-वेरिंद-नील-सासग-ककेयण-लोहियक्ख-मरगय-मसारगल्ल-पवालफलिह-सोगंधिय-हंसगब्भ-अंजण-चंदप्पहवररयणेहिं महियलपइट्टियं, गगनमंडलं तं पभासयंतं, तुंगं, मेरुगिरिसन्निकासं पिच्छइ सा रयणनिकररासिं ॥ १३ ॥४५॥ ततः पुनः सा त्रिशला क्षत्रियाणी त्रयोदश खप्ने रत्नानां राशिं पश्यति । तानि कानि कानि रत्नानि सन्ति | तेषां नामानि कथ्यन्ते-पुलकरत्न-वज्ररत्न-नीलरत्न-सासकरत्न-कर्केतनरत्न-लोहितरत्न-मरकतरत्न-प्रवालरत्नस्फटिकरत्न-सौगन्धिकरत्न-हंसगर्भरत्न-अञ्जनरत्न-चन्द्रप्रभरत्नानि अन्यान्यपि प्रधानानि रत्नानि विशाले सुवर्णस्य स्थाले स्थापितानि । तेषां रत्नानां पुत्रो मेरुपर्वतवद् उच्चस्तरो गगनमण्डलं देदीप्यमानं कुर्वन्तं ( रत्नराशिं) त्रिशला पश्यति ॥ १३ ॥ ४५ ॥ इति त्रयोदशखप्नम् उक्तम् । अथ चतुर्दशं स्वप्नं वर्णयति
For Private and Personal Use Only