________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्रं
॥६७॥
कल्पद्रुम कलिका वृत्तियुक्तं. व्याख्या.
सोभंतनिम्मलं, उक्कडउम्मीसहसंबंधधावमाणोनियत्तभासुरतराभिरामं, महामगरमच्छ-तिमि-तिमिगिलनिरुद्धतिलतिलयाभिधायकप्पूरफेणपसरं, महानईतुरियवेगसमागयभणमगंगावत्तगुप्पमाणुच्छलंतपच्चोनियत्तभममाणलोलसलिलं पिच्छइ खीरोयसायरं, सा रयणिकरसोमवयणा ॥ ११॥ ४३॥ ततः पुनः सा त्रिशला चन्द्रवदना क्षीरसमुद्रं पश्यति । कीदृशः स क्षीरसमुद्रः ? चन्द्रस्य किरणानां समूहस्य यादृशी शोभा भवति तादृशी शोभा यस्मिन् समुद्रमध्येऽस्ति । पुनर्यस्य समुद्रस्य जलसमूहः चतसृषु दिक्षु वर्धमानो वर्तते । पुनर्यस्मात् समुद्रात् चपलाः, चपलेभ्योऽपि चपलाः; उच्चाः, अतीवोचाः; कल्लोला उत्तिष्ठन्ति । तैरेव कल्लोलर्यस्य पानीयं चपलं वर्तते । पुनर्यस्य समुद्रस्य कल्लोलमाला मन्दपवनेन आहता सती तटप्रदेशे आगत्य तटस्य क्षोभं करोति-तटे शब्दं करोति, तेन कारणेनाऽतीव सुन्दरो दृश्यते समुद्रः। पुनर्यस्य समुद्रस्य कल्लोला| कीदृशा वर्तन्ते ? निर्मलाः, उत्कटाः, ससंबन्धेन धावमानाः-एकस्य कल्लोलस्य पृष्ठेऽपरः कल्लोलः, पूर्व लघिष्ठाः कल्लोलावलन्ति, तेषां पृष्ठे महाकल्लोला एवं क्रमेण कल्लोलानां शोभा दृश्यते । पुनर्यस्मिन् समुद्रे एते जलचारिणो जीवाः क्रीडन्ति । ते के जलजन्तवः ? महामकरमत्स्याः, तिमयो मत्स्यविषेशाः, तिमिनिला येऽपरान् मत्स्यान्
॥६७॥
For Private and Personal Use Only