________________
Shri Mahavir Jain Aradhana Kendra
क्र.स. १२
www.kobatirth.org
Acharya Shri Kallassagarsuri Gyanmandir
सूर्यस्य किरणैः कृत्वा सहस्रदलकमलानि विकसितानि सन्ति, विकसितानां च कमलानां मकरन्देन कृत्वा यस्य | पानीयं सुगन्धं वर्तते; कमलानां पुष्पैः, पत्रैश्च यस्य जलस्य प्रभा पिञ्जरवर्णा दृश्यते । पुनर्यस्य सरोवरस्य जलं जलचरजन्तूनां समूहः सेव्यमानं वर्तते । पुनर्यस्य सरोवरस्य मध्ये पद्मिनीपत्रे जलबिन्दवः पतिताः सन्त ईदृशा विराजन्ते यथा मणिजटिताङ्गने मुक्ताफलानां चित्राणि लिखितानि भवन्ति । पुनर्यत् सरोवरं महद् वर्तते । पुनर्यस्मिन् सरोवरे कमलानि सूर्यविकासीनि कुवलयानि रात्रिविकासीनि पद्मानि, उत्पलानि - नीलकमलानि, तामरसानि - महाकमलानि, पुण्डरीकाणि-श्वेतकमलानि, रक्तकमलानि, पीतकमलानि वर्तन्ते, विराजन्ते, शोभासमुदायेन अतीव रमणीकं वर्तते । पुनस्तेषु कमलेषु प्रसन्ना भ्रमराः, भ्रमर्यश्च आगत्य गुञ्जन्ति । पुनरपि यस्मिन् सरोवरे एते पक्षिणो वसन्ति । ते के के पक्षिणः ? कादम्बकाः, कलहंसाः पुनश्चक्रवाकाः, हंसानां बालकाः, तथा सारसा एते सर्वेऽपि गर्वेण वसन्ति । एतादृशं सरोवरं पद्मः अभिरामं दशमे खमे पश्यति इति दशमः खमः ॥ १० ॥ ४२ ॥ अथ एकादशे खमे क्षीरसमुद्रं पश्यति
तओ पुणो चंद्रकिरणरासिसरिससिरिवच्छसोहं चउग्गुणपवद्धमाणजलसंचयं, चवल - चंचलुच्चायप्पमाणकल्लोललोलंततोयं, पडुपवणाहयचलिअचवलपागडतरंगरंगभंगखोखुब्भमाण
For Private and Personal Use Only