________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्वेता भवन्ति, यादृशो रूप्यस्य कलशः श्वेतो भवति तादृशेन पाण्डुरेण श्वेतवर्णेन विराजते । यं सिंहं दृष्ट्वा लोका इति विचारयन्ति-किम् असौ सिंहो गगनमण्डलभेदनाय उद्यतः ? पुनर्यस्य ध्वजस्य वस्त्रं निरुपद्रवया वायुलहर्या ईषत् कम्पायमानं वर्तते । पुनर्यो ध्वजोऽतीव उच्चोऽस्ति । जनानां यस्यरूपं प्रेक्षणीयं वर्तते इति अष्टमः खमः ॥ ८॥ ४० ॥ अथ नवमखमस्य पूर्णकलशस्य वर्णनम् आहतओ पुणो जच्चकंचणुज्जलंतरूवं, निम्मलजलपुन्नमुत्तमं, दिप्पमाणसोहं, कमलकलावपरिरायमाणं, पडिपुण्णसवमंगलभेयसमागम, पवररयणपरायंतकमलट्ठियं, नयणभूसणकरं, पभासमाणं, सवओ चेव दीवयंतं, सोमलच्छीनिभेलणं, सबपावपरिवज्जियं, सुभं, भासुरं, सिरिवरं, सवओ य सुरभिकुसुमआसत्तमल्लदामं पिच्छइ सा रययपुण्णकलसं ॥ ९॥ ११॥ ततः पुनः सा त्रिशला क्षत्रियाणी पूर्णकलशं पश्यति । कीदृशः संपूर्णकलशः ? उत्तमस्वर्णवद् देदीप्यमान यस्य रूपं वर्तते । निर्मलजलेन पूर्णोऽस्ति । अतीव सुन्दरा सूर्यमण्डलवद् जाज्वल्यमाना शोभा वर्तते । यस्य पूर्णकलशस्य पाच कमलानां वाटिका वर्तते, कमलैवेष्टितो राजते । पुनर्यः पूर्णकुम्भः सर्वेषां मङ्गलानां समागर्म सूचयति । पुनर्यः पूर्णकलशः प्रधानरत्नानां कमलस्य उपरि स्थापितो वर्तते । नयनयो आनन्ददाता, प्रभा
For Private and Personal Use Only