SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सर्वेऽपि पथिकाः प्रमुदिताः सन्तः प्रचलन्ति । पुनर्यः सूर्यः शीतवेगान मनाति, यस्योदयात् शीतं पलायते । पुनर्यः सूर्यो मेरुपर्वतस्य पार्थे निरन्तरं प्रदक्षिणया भ्रमति विस्तीर्णमण्डलयुक्तः । पुनर्येन सूर्येण स्वकीयसहस्रकिरणैः कृत्वा चन्द्रादिग्रहाणाम् , ताराणाम् , नक्षत्राणां प्रभा दूरीकृताऽस्ति । अत्र यत् श्रीसूर्यस्य सहस्रकिरणा उक्ताः तद् लोकरूख्या ज्ञेयम् । तथा लोके मूर्यस्य 'सहस्रकिरणः' इति नाम प्रसिद्धं वर्तते । सूर्यस्य किरणा ऋतुभेदाद अधिका अपि भवन्ति, अल्पा अपि भवन्ति । सहस्रेभ्योऽल्पाः कदाचिद् न भवन्ति, तद्यथा शतानि द्वादश मधौ, त्रयोदशैव माधवे । चतुर्दश पुनज्येष्ठे, नभो-नभस्ययोस्तथा ॥१॥ पञ्चदशैव त्वाषाढे, षोडशैव तथाऽश्विने । कार्तिके त्वेकादशकः, शतान्येवं तपस्यपि ॥२॥ मार्गे तु दशसार्धानि, शतान्येवं च फाल्गुने । पौषे एव परं मासि, सहस्रकिरणा रवेः॥३॥ चैत्रमासे १२००किरणाः सूर्यस्य भवन्ति । वैशाखमासे १३००किरणा भवन्ति । ज्येष्ठमासे १४००किरणा भवन्ति । श्रावणे मासे, भाद्रपदे मासे च १४००किरणा भवन्ति । आषाढे १५०० किरणा भवन्ति । आश्विनमासे १६०० किरणा भवन्ति । कार्तिकमासे ११०० किरणा भवन्ति । माघमासे एकादशशतकिरणा भवन्ति । मार्गशीर्षमासे सार्धदशशतानि भवन्ति । फाल्गुनमासेऽपि सार्धदशशतानि भवन्ति । पौषमासे सहस्रकिरणा भवन्ति-इति ग्रन्थादौ सूर्यस्य किरणसंख्या कथिताऽस्ति, एतादृशं सूर्यदेवं जगच्चक्षुषं सप्तमे खमे पश्यति ॥७॥३९॥ For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy