________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsun Gyanmandir
www.kobatirth.org
कल्पसूत्र
कल्पद्रुम कलिका वृत्तियुक्तं. व्याख्या.
॥६४॥
प्पयारप्पमद्दणं, सीयवेगमहणं पिच्छइ मेरुगिरिसययपरिय{अंविसालं सूरं रस्सीसहस्सपयलियादित्तसोहं ॥ ७॥३९॥ ततश्चन्द्रस्य निरीक्षणाद् अनन्तरं सूर्य पश्यति । परं स सूर्यः कीदृशोऽस्ति ? अन्धकारस्य पटलं परिस्फोटयन तेजसा जाज्वल्यमानो वर्तते । पुनर्यस्य रूपं कीदृशं रक्तं वर्तते ? यादृशः पुष्पितो रक्तोऽशोकवृक्षो भवति तस्य प्रकाशसदृशो रक्तवर्णोऽस्ति । पुनर्यादृशं किंशुकं पुष्पितं भवति, यादृशं शुकस्य मुखं भवति, यादृशं| गुञ्जाया अर्ध भवति तादृशम् आरक्तं रूपम् अस्ति । पुनर्यः सूर्यः कमलवनानि प्रबोधयति, अतः कारणात् कमलवनानाम् अलंकरणं शोभाकारकोऽस्ति । ज्योतिःशास्त्रस्य ज्ञानम् , अथवा ज्योतिषाम्-ज्योतिश्चक्राणां ग्रहाणां चिहं वर्तते । पुनरपि यः सूर्य आकाशस्य साक्षात् प्रदीप इव भाति । पुनर्यः सूर्य उदयमानः सन् हिमपटलस्य गले हस्तं दत्त्वा निष्काशयति । पुनयः मूर्यो ग्रहाणांमहाराजा वर्तते । रात्रेविनाशकः । पुनर्यस्य रूपम् उदयवेलायाम् , अस्तवेलायां च मुहर्त यावत् सुखेन विलोकयितुं शक्यते पश्चाद् निरीक्षितुं न शक्यते । पुनर्यः सूर्यः कीदशोऽस्ति ? रात्रिरूपं यद् अन्तःपुरं तत्र यो दुष्पचारः पुरुषाणां गमनस्याऽसामर्थ्य तस्य निवारकः । यथा नृपाणाम् अन्तःपुरे गच्छतः पुरुषस्य भयं जायते तथा रात्रौ अन्धकारे प्रचलतः पुरुषस्य मनसि भयं भवति, सूर्योदये तु
॥६४॥
For Private and Personal Use Only