SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra कल्पसूत्रं ॥ ६२ ॥ www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir तओ पुणो सरसकुसुममंदारदामरमणिजभूयं, चंपग - असोग - पुन्नाग- नाग-पियंगु - सिरीसवलयो वर्तते । तस्मिन् वलये श्रीदेव्याः पोडशसहस्रप्रमाणा अङ्गरक्षका देवा वर्तन्ते । तेषां पोडशसहस्रकमलानि सन्ति ॥ इति तृतीयो वलयः ॥ ३ ॥ पुनस्तस्मात् तृतीयवलयाद् परितो वलयाऽऽकारेण चतुर्थो वलयो वर्तते । तस्मिन् आभ्यन्तरवलये श्रीदेव्या द्वात्रिंशल्लक्षा आभ्यन्तरा आभियोगिकदेवाः सन्ति । तेषां द्वात्रिंशलक्षकमलानि सन्ति । इति चतुर्थो वलयः ॥ ४ ॥ पुनस्तस्मात् चतुर्थाऽऽभ्यन्तरवल्यात् परितो वलयाऽऽकारेण पञ्चमो मध्यमवलयो वर्तते । तस्मिन् वलये श्रीदेव्याश्चत्वारिंशलक्षा माध्यमा आभियोगिकदेवा वर्तन्ते । तेषां चत्वारिंशलक्षकमलानि सन्ति । इति पञ्चमो वलयः ॥ ५ ॥ पुनस्तस्मात् पञ्चमवल्यात्परितो वलयाऽऽकारेण षष्ठो वाह्यवलयो वर्तते । तस्मिन् वलये श्रीदेव्या अष्टचत्वारिंशलक्षा बाह्या आभियोगिका देवा वर्तन्ते । तेषां देवानां अष्टचत्वारिंशलक्षकमलानि सन्ति । इति षष्ठो वलयः ॥ ६ ॥ अथ कियन्ति सर्वाणि कमलानि जातानि । तत्राऽऽह - एकाकोटिः, विंशतिलक्षाः पञ्चाशतसहस्राः, एकं शतं विंशतिश्च ( १२०५०१२० ) एतानि कमलानि शाश्वतानि पृथिवीमयानि, वनस्पतिकाय कमलसदृशाऽऽकारतया दृश्यमाणानि । ॥ ६२ ॥ एतत्सर्व कमलाऽऽवासवासिनो देवाः, देव्यश्च श्रीदेवीसेवां कुर्वाणाः वसन्ति । अत्र केचित् श्रीदेवीस्थाने तुल्यनामतया पर्यायत्वेन लक्ष्मीदेवतां नामग्रहणेन वर्णयन्ति ॥ For Private and Personal Use Only कल्पद्रुम कलिका वृत्तियुक्तं• व्याख्या• ३
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy