SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परिधिः । तस्याः कर्णिकाया मध्ये श्रीदेवीवासयोग्यम् एकं महालयं वर्तते । तत् कीदृशम् ? एकक्रोशं लम्बम् , अर्धक्रोश पृथुलम्, किञ्चिन्यूनत्रिकोशं उच्चम् । तस्य प्रासादस्य त्रीणि द्वाराणि-एक पूर्वदिशि, द्वितियं दक्षिणदिशि, तृतीयम् उत्तरदिशिः पञ्चधनुश्शतानि उच्चानि, साद्विशतधनूंषि पृथुलानि सन्ति । तस्य गृहस्य मध्ये एका सार्धद्विशतधनुष्प्रमाणा मणीमयी वेदिका वर्तते । तस्या उपरि एका श्रीदेवतायोग्या शय्या वर्तते ॥ अथ यद् मौलं कमलं कथितं तद् अष्टोत्तरशतकमलैः वलयाकारेण परिवेष्टितं वर्तते । एतानि कमलानि मुख्यकमलाद् अर्धप्रमाणानि सन्ति । तेषु-अष्टोत्तरशतकमलेषु -श्रीदेव्या आभरणानि सन्ति । इति प्रथमो वलयः ॥१॥ पुनः प्रथमवलयपरितो वलयाऽऽकारेण कमलानां द्वितीयवलयो वर्तते । तत्र पूर्वदिशि श्रीदेव्याश्चतस्रो महत्तरा देव्यो वर्तन्ते । तासां चत्वारि कमलानि सन्ति ।। पुनः आग्नेयकोणे श्रीदेव्या आभ्यन्तरपर्षदि स्थातारो गुरुस्थानीया अष्टौ सहस्रा देवा वर्तन्ते । तेषां च अष्टौ सहस्राणि कमलानि सन्ति । दक्षिणदिशि श्रीदेव्याः मध्यमपर्पदि स्थातारोदशसहस्रदेवा मित्रस्थानीया वर्तन्ते । तेषां दशसहस्रकमलानि सन्ति ॥ पुनर्नैऋतीकोणे श्रीदेव्या द्वादशसहस्रप्रमाणाः किंकरस्थानीया देवा सन्ति । तेषां द्वादशसहस्रप्रमाणानि कमलानि वर्तन्ते ॥ पुनः पश्चिमदिशि श्रीदेव्याः(हस्ति-तुरंगम-रथ-पदाति-महिष-गान्धर्व-नाट्यरूपाणि) सप्त अनीकानि, तेषाम् अधिपतयः सन्ति । तेषां सप्त कमलानि सन्ति॥वायव्यकोणे, उत्तरदिशि, ईशानकोणे एतेषु त्रिषु दिक्षु श्रीदेव्याश्चतुःसहस्रप्रमाणाः सामानिका देवा वर्तन्ते। तेषां चतुःसहस्रकमलानि सन्ति। एवं दिशाम् अष्टकेन द्वितीयोवलयः॥२॥ पुनर्द्वितीयवलयस्य परितोवलयाऽऽकारेण तृतीयो For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy