________________
Shri Mahavir Jain Aradhana Kendra
कल्पसूत्र ॥ ६१ ॥
www.kobatirth.org
Acharya Shri Kallassagarsuri Gyanmandir
तदा तस्मात् कमलाद् मकरन्दः क्षरति । पुनर्यस्या लक्ष्मीदेवताया एतादृशः केशपाशोऽस्ति । स केशपाशः कीदृशोऽस्ति ? सुविशदो ऽतिनिर्मलः, घनो - निचितः, कृष्णः - श्यामवर्णः, लम्वायमानः कटीं यावत् श्यामवर्णो राजते । एवं चरणयोर्नवेभ्य आरभ्य वेणीं यावद् रूपस्य वर्णनं कृतम् । एतादृशीं लक्ष्मी पद्मग्रहकमले वसन्तीम्, हिमाचल पर्वतस्य मस्तकोपरिस्थिताम् । दशभ्यो दिग्भ्यो गजा आगत्य यां लक्ष्मीं प्रति शुण्डादण्डं पद्मद्रहजलैभृत्वा स्नानं कारयन्ति । एतादृशीं लक्ष्मीदेवतां पश्यति । इति चतुर्थखनम् ॥ ४ ॥ ३६ ॥ अथ पञ्चमस्त्रमं व्याख्यायते
१. तद्यथाः- अस्मिन् जम्बूद्वीपे भरतक्षेत्रे, हिमवान् नाम पर्वतोऽस्ति । स शाश्वतः, स्वर्णमयो राजते । स एकसहस्र| द्विपञ्चाशद्योजनानि, द्वादश कलाश्च पृथुलः शतयोजनानि उच्चोऽस्ति । तस्योपरि पद्मद्रहोऽस्ति स दश योजनानि उण्डः, पञ्चशतयोजनानि पृथुलः, एकं योजनसहस्रं च लम्बः निर्मलजलेन संपूर्णः । तस्य पद्मद्रहस्य तलम्, पार्श्वद्वयं च वज्ररत्नमयं वर्तते । तस्मिन् एकं श्रीदेवीवासयोग्यं कमलं वर्तते । तद् योजनैकं पृथुलम्, योजनैकं च लम्बम् अस्ति । तद् दश योजनानि पानीयमध्ये, कोशद्वयं च पानीयोपरि, सविशेषत्रीणि योजनानि तस्य परिधिः । वज्ररत्नमयं तस्य तलम्, अरिष्टरलमयं मूलम्, रक्तरलमयः स्कन्दः, वैडुर्यरत्नमयं नालम्; रत्न- सुवर्णमयानि तस्य पत्राणि, किञ्चिद् जाम्बून दनामसुवर्णमयानि तस्य बाह्यपत्राणि । तस्य कमलस्य मध्ये वीजकोषरूपा एका सुवर्णमयी कर्णिका राजते । सा कीदृशी? रत्न - सुवर्णमयास्तस्याः केशराः, क्रोशद्वयं लम्बाः, पृथु ठाश्च । एककोशम् उच्चा पिण्डरूपा, सविशेषं क्रोशत्रयं तस्याः
For Private and Personal Use Only
कल्पद्रुम कलिका
वृत्तियुक्त. व्याख्या.
३
॥ ६१ ॥