SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir षेण न भवन्ति; तथापि कवीनां शृङ्गारखभावत्वाद रोमराज्या वर्णनं कृतम् । रोमराजी कीदृशी वर्तते? जात्यानवत्, कजलवत् श्यामवर्णा, भ्रमरश्रेणीवत्, सजलमेघघटावत् कृष्णा । पुनर्या रोमराजी ऋजु:-सरला, समा, मिलिता, सुकुमाला, रमणीया, सुविलासा, शिरीषपुष्पवद् मृदुरस्ति। पुनर्नाभीमण्डलेन सुन्दरम् , विस्तीर्णम् , प्रशस्तं जघनं यस्या लक्ष्मीदेवताया अस्ति । पुनर्यस्या लक्ष्मीदेवतायाः कटीपदेशो मुष्टिग्राह्योऽस्ति । मध्यप्रदेशस्त्रिवलीभिर्विराजमानोऽस्ति । पुनर्यस्या अङ्गो-पाङ्गानि सर्वाणि आभरणैश्च भूषितानि सन्ति । परंतु तानि आभरणानि-भूषणानि कीदृशानि सन्ति ? नानाप्रकारैर्मणीभिश्चन्द्रकान्तादिभिः, माणिक्यादिभिः, रत्नादिभिर्निर्मितानि स्वर्णमयानि सन्ति । पुनर्यस्या लक्ष्मीदेवताया हृदये द्वावपि स्तनौ खर्णकलशौ इव विरा-N Bजेते । परं स्तनौ कीदृशौ स्तः ? हारविराजमानौ, कुन्दमालया व्याप्ती, तथा देदीप्यमानौ । पुनर्यस्या लक्ष्म्याः शरीरे आदरेण चतुराभिः स्त्रीभिभूषणानि परिधापितानि सन्ति । सुभगानि मुक्ताजालकानि विराजन्ते । हृदयं दिनारमालया शोभते । कण्ठस्तु मणिसूत्रेण । कुण्डलयुगलेन अंशौ शोभायमानौ स्तः । एवं भूषणानां शोभागुणसमुदायेन लक्ष्मीदेवताया मुखं विराजते, यथा राजा कुटुम्बन विराजते । मुखस्य सर्वतो भूषणानां शोभासमुदायोऽस्ति, स मुखकुटुम्बम् इव मिलितोऽस्ति । निर्मलकमलपत्रे इव दीर्घे, तीक्ष्णे, विशाले लोचने स्तः। पुनर्यस्याः श्रीलक्ष्मीदेवतायाः करे कमलस्य लीलार्थ तालवृन्तं कृतमस्ति । यदा तत् कमलं लीलार्थं दोलयति | क.स. ११ For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy