________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्र
॥५६॥
| कल्पद्रुम कलिका वृत्तियुक्त. व्याख्या.
दूमियघटुमढे, विचित्तउल्लोयचित्तिअतले, मणि-रयणपणासअंधयारे, बहुसम-सुविभत्तभूमिभागे, पंचवन्न-सुरस-सुरभिमुक्कपुप्फपुंजोवयारकलिए, कालागुरु-पवरकुंदुरुक्क-तुरुक्कडझंतधूवमघमघतगंधुडुयाभिरामे, सुगंधवरगंधिए, गंधवद्विभूए ॥ यस्यां रजन्यां श्रमणो भगवान् श्रीमहावीरो हरिणेगमेषिणा देवेन देवानन्दायाः कुक्षितः, त्रिशलाक्षत्रियाण्याः कुक्षौ अवतारितः, तस्यां रात्रौ सा त्रिशलाक्षत्रियाणी यस्मिन् वासभुवने सुप्ता सति चतुर्दश महाखमान पश्यति, तद् वासभवनं श्रीभद्रबाहुस्खामी वर्णयति-यस्य वासभवनस्य वर्णनं कर्तुं न शक्यते, दृष्टम् एव यस्य रूपं ज्ञायते, पुण्यवतां पुरुषाणां बसनाय योग्यम् । पुनरपि तद् गृहं किदृशम् ? अभ्यन्तरे-मध्यप्रदेशे सर्वासु भित्तिषु नानाप्रकाराणि चित्राणि चित्रितानि सन्ति । बहिःप्रदेशेऽपि सुधया धवलयित्वा, कोमलपाषाणैर्घटयित्वा, अतीव चाकचिक्यम् उत्पाद्य चन्द्रमण्डलवद् देदीप्यमानं कृतं वर्तते । पुनरपि यस्य गृहस्य मध्ये, उपरिभागे रम्याणि चित्रयुक्तानि चन्द्रोपकानि बद्धानि सन्ति । यस्य गृहस्य मध्ये मणिभिश्चन्द्रकान्ताभिः, तथा रत्नैवेंडूर्यप्रमुखैरन्धकारं दूरीकृतम् अस्ति । पुनरपि यस्य गृहस्याऽङ्गणं नाऽत्युच्चम् , नातिनीचम्, अतीवसमीकृतम् , सुवर्णस्य स्थालवत् समानं शोभते । पुनरपि यत्र गृहे कालागुरु-कृष्णागरु-चीडसेल्हारस-चन्दन-लोबानप्रमुख
तिषु नानाविश्यम दोपकानि
॥५६
यस्य गृहलाह-कृष्णा"
For Private and Personal Use Only