________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अथ तृतीयं व्याख्यानम् ।
अर्हद्भगवतः श्रीमन्महावीरदेवस्य शासने, अतुलमङ्गलमालाप्रकाशने, श्रीपर्युषणापर्वराजाधिराजसमागमने, श्रीकल्पसूत्रसिद्धान्तवाचनाः क्रियन्ते । तत्र त्रयोऽधिकाराः प्रवर्तन्ते । प्रथमेऽधिकारे श्रीजिनचरित्रम् , तहनन्तरं स्थविरकल्पः, तदनन्तरं साधुसमाचारीकल्पः । तत्र श्रीजिनचरित्राधिकारे पश्चाऽनुपूर्व्या श्रीमहावीरदेवस्य कल्याणकषट्कं संव्याख्यातम् । द्वितीयवाचनायां श्रीमहावीरदेवस्यैव च्यवनकल्याणकम् , गर्भाऽपहारकल्याणकम् उक्तम् । अथ गर्भाऽपहारकृताऽनन्तरं यथा त्रिशल्याः क्षत्रियाण्या चतुर्दशस्वमा दृष्टास्तथा श्रीभद्र|बाहुखामी सूत्रं ब्रूते
जं रयणिं च णं समणे भगवं महावीरे देवाणंदाए माहणीए, जालंधरसगुत्ताए कुच्छिओ, तिसलाए खत्तिआणीए वासिटुसगुत्ताए कुच्छिसि गम्भत्ताए साहरिए, तं रयणिं च णं सा तिसला खत्तिआणी तंसि तारिसगंसि वासघरंसि अभितराओ सञ्चितकम्मे, बाहिराओ
For Private and Personal Use Only