________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
त्रिशलायाः क्षत्रियाण्या गर्भः पुत्रिकालक्षणः, तं गर्भं देवानन्दायाः कुक्षौ संचार्य यस्याः दिशः समागतोऽभूत् न - पानैभक्ति करोति, परं कस्यापि पुत्रकरणे शक्तिर्नास्ति, सर्वेऽपि उदरंभराः पोषणाय मिलिताः स्मः तदा तेषां मध्याद् एकेन ऋषिणा प्रोक्तम् अहं जानामि उपायम्, इत्युक्त्वा सुवर्णकञ्चोलके नीरमभिमच्य राज्ञे दत्तम्, प्रोक्तं च-या तवाऽभीष्टा राज्ञी भवति तस्याः पाय्यम्, पुत्रो भावी । राजा नीरं लात्वा स्वावासे गतः, सर्वाभिः राज्ञीभिः सुतव्यतिकरो ज्ञातः, तदा सर्वाभिर्दासीद्वारा कथापितं मम देयम् । राज्ञा विचारितम् - राज्ञ्यो वह्नयः, कस्यै दीयते ? एकस्या दानेऽन्याः सर्वा अपि क्लेशं करिष्यन्ति, मरिष्यन्ति, मामपि मारविष्यन्ति । पुनस्ताभिः प्रोक्तम्- यस्यै दास्यसि पानीयं तां वयं मारयिष्यामः राज्ञा चिन्तितम् - "प्रतापो गौरवं पूजा श्रीर्यशस्सुप्रतिष्ठिता । तावत्कालं प्रवर्तन्ते यावन्नोत्पद्यते कलिः " ॥ १ ॥ इति विचिन्त्य न कस्याऽपि दत्तम् । नीरभृतं कच्चोलकं वस्त्रेणाऽऽच्छाय पानीयस्थाने घटोपरि मुक्तम्, राजा स्वस्याssवासे सुप्तः, रात्रौ राज्ञस्तृषा लग्ना, पानीयं मार्गितम्, राज्यः कथयन्ति या तवाऽभीष्टा भविष्यति सा पानीयं पाययिष्यति, तदाऽन्यः कोऽपि पार्श्वेनाऽभूत्, एका शय्यापालिकाऽभूत् तयाऽजानन्त्या तत्कचोलकनीरम् आनीय दत्तम् राज्ञा च पीतम्, मन्त्रप्रभाबाद् गर्भो जातः, प्रतिदिनम् उदरं वर्धते, राजा लज्जया सभायां नाऽऽयाति, प्रत्युत असमाधानं जातम् राज्ञाऽष्टाऽशीतिसहस्रमुनीनाम् उपालम्भो दत्तः, लाभमिच्छतो मम मूलक्षतिरायाता, ततस्त्रिंशत्कोटिदेवाऽष्टाऽशीतिसहस्रमुनि मेलाप केनाऽऽराधित इन्द्रः समागतः तेन स्वसेवकदेवपार्श्वाद् राज्ञो नाभि विदार्य संपूर्णो गर्भो निष्कासितः सर्वैः प्रोक्तम् स्तन्यपानं कस्याः करिष्यति, इन्द्रेण प्रोक्तम्- मां धास्यति, तत इन्द्रेण स्त्रीरूपं कृत्वा स्तन्यपानं कारितम् । क्रमेण वर्धमानो मान्धाता नाम राजा जातः ॥ इत्यादयोऽनेके एवंविधा व्यतिकरारसन्ति ॥
I
For Private and Personal Use Only