SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra कल्पसूत्रं ॥ ५३ ॥ www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir श्रीमहावीरं हस्तसंपुढे गृहीत्वा, क्षत्रियकुण्डग्रामे नगरे, सिद्धार्थक्षत्रियस्य गृहे यत्र त्रिशला क्षत्रियाणी सुप्ताऽस्ति तत्राऽऽयाति, आगत्य त्रिशलायाः सपरिवाराया अवखापिनीं निद्रां दत्त्वा अशुभपुद्गलान् दूरं कृत्वा, शुभपुद्गलान् प्रक्षिप्य श्रमणं भगवन्तं महावीरं निराबाधं त्रिशलायाः क्षत्रियाण्याः कुक्षौ गर्भत्वेन संचारयति । १. अत्राऽह कोऽपि शिवशासनी- अहो !! एवं गर्भपरावर्तनं कदापि भवति ? तत्रोच्यते - शिवशासनेऽपि 'श्रीभागवतदशमस्कन्धे, द्वितीयाऽध्ययने' बलदेवस्य गर्भपरावर्तनं श्रूयते । तत्रत्यं लोकचतुष्टयं यथा - "भगवानपि विश्वात्मा विदित्वा कंसजं भयम् ॥ यदूनां निजनाथानां योगमायां समादिशत् ॥ १ ॥ गच्छ देवि । त्रजं भद्रे गोपं गोभिरलंकृतम् || रोहिणी वसुदेवस्य भार्याऽऽस्ते नन्दगोकुले ||२|| देवक्या जठरे गर्भ शेषाख्यं धाम मामकम् ॥ तत्सन्निकृष्य रोहिण्या उदरे संनिवेशय || ३ || गर्भसंकर्षणात्तं वै आहुः संकर्षणं भुवि ॥ रामेति लोकरमणाद् बलभद्रं बलाश्रयात् ॥ ४ ॥ पुनरपि पुराणे मान्धाताराज्ञ उत्पत्तिकथा यथा - विशाला नाम नगरी, तत्र यवनाश्वो राजा महासाम्राज्यधरः, परम् अपुत्रः, तेन पुत्रार्थं षोडशशतकन्यानां पाणिग्रहणं कृतं परं तथाऽपि पुत्रो न जायते, तेन मनसि अतीव चिन्तातुरो जातः, यतः “अपुत्रस्य गतिर्नास्ति स्वर्गो नैव च नैव च ॥ तस्मात्पुत्रमुखं दृष्ट्वा स्वर्गे यान्ति स्म मानवाः " ॥ १ ॥ "पुनः गेहूं पि तं मसाणं जत्थ न दीसंति धूलिधूसरमुहाई उद्वंत पडत-रडवडंति दो तिन्नि डिंभाई" ॥ २ ॥ इत्यादि ॥ ततः कस्याऽपि उपदेशाद् अष्टाऽशीतिसहस्रऋषीणां भोजनं दातुं प्रवृत्तः, त्रयस्त्रिंशत्कोटिदेवताऽऽराधनमपि कृतं तथाऽपि पुत्रो न भवति । एकदा अष्टाऽशीतिसहस्र ऋषिभिर्विमृष्टम् अयं राजा आत्मनां प्रत्यहं मिष्टा For Private and Personal Use Only कल्पद्रुम कलिका वृत्तियुक्तं. व्याख्या. २ ॥ ५३ ॥
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy