________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
हरिणेगमेषी देव उत्तर-पूर्वदिशान्तरालम् अर्थाद् ईशानकूणे आगत्य वैक्रियसमुद्घातं करोति, जीवप्रदेशान निष्काशयति समुद्घातं करोति । संख्यातयोजनस्य दण्डोनिःसरति, उच्चैः प्रमाणं जीवप्रदेशकर्मपुद्गलसमूहो दण्डरूपेण प्रकटयति। तद् दण्डरत्नमयम् । तानि कानि रत्नानि? कर्केतनरन-वज्ररत्न-वैडुर्यरत्न-लोहिताक्षरत्न-मसारगल्लरत्न-हंसगर्भ-पुलक-सौगन्धिक-ज्योतिरस-अञ्जन-अञ्जनपुलक-जातरूप-अङ्करत्न-स्फटिक-अरिष्टरनानि । एतेषां रत्नानाम् असारपुद्गलान् अपहाय, सारपुद्गलान् गृहीत्वा उत्तरवैक्रियरूपं करोति । मूलरूपं भवधारणीयं तत्रैव रक्षति, नवीनं रूपं कृत्वा मनुष्यलोके आयाति ॥२६॥ अथ कया गत्या मनुष्यलोके आयाति ? तां गतिं वर्णयति-चण्डागल्या, चपलागत्या, यतनागत्या, वेगवत्या गत्या कृत्वा एताभिश्चतसृभिर्गतिभिः कृत्वा प्रचलति । अथ तासां गतीनां मानं वदति । प्रथम चण्डागतेर्मानम्-द्विलक्षयोजनम् , त्र्यशीतिसहस्रयोजनम् , पञ्चशतयोजनम् , पुनरशीतिर्योजनम् , पुनः षट् कला; एतावन्ति योजनानि एकस्मिन् पादाऽन्तराले मुञ्चति । द्वितीया चपलागतिः, तस्या मानम्-चत्वारिलक्षयोजनानि, द्वासप्ततिसहस्रयोजनानि, षट् शतानि, त्रयस्त्रिंशद्योजनानि; एतावन्ति योजनानि एकस्मिन् पादाऽन्तराले मुञ्चति । अथ तृतीया यतनागतेर्मानम्-षट्लक्षयोजनानि, एकषष्टिः सहस्राणि, षट् शतानि, षडशीतिर्योजनानि, चतुःपञ्चाशत् कला; एतावन्ति योजनानि एकस्मिन् | पादाऽन्तराले मुश्चति । अथ वेगवतीगतर्मानम्-अष्टौ लक्षाणि, पञ्चाशत् सहस्रयोजनानि, सप्तशतयोजनानि,
For Private and Personal Use Only