________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जाव-त्ति कटु एवं जं देवो आणावेइत्ति । आणाए विणएणं वयणं पडिसुणेइ, पडिसुणित्ता सक्कस्स देविंदस्स देवरण्णो अंतियाओ पडिनिक्खमइ, पडिनिक्खमइत्ता ॥ अथ देवेन्द्रो हरिणेगमेषिदेवस्याऽग्रे वदति-भो देवाऽनुप्रिय! नाम-गोत्रे कर्मणि अक्षीणे सति, अजीर्णे सति, अपूर्णीभूते सति, तस्योदये जाते सति अर्हन्तः, चक्रवर्तिनः, बलदेव-वासुदेवा अन्तादिकुलेषु आगत्योत्पद्यन्ते ३ न च तेषां योनिद्वारा जन्म जायते ३ ॥२२॥ तस्मात् कारणाद् भो हरिणेगमेषिदेव ! अयं श्रमणो भगवान श्रीमहावीरोऽस्मिन् जम्बूद्वीपे भरतक्षेत्रे ब्राह्मणकुण्डग्रामे नगरे ऋषभदत्तस्य ब्राह्मणस्य कोडलगोत्रस्य भार्याया| देवानन्दाया ब्राह्मण्या जालन्धरगोत्रिण्याः कुक्षौ नाम-गोत्रकर्मवशाद् आगत्य उत्पन्नोऽस्ति ॥२२॥ भो हरिणेगमेपिन् ! पूर्वमपि ये केचिद् इन्द्राः बभूवुः, अग्रे भविष्यन्ति तैः सर्वैरिन्द्रैर्भक्तिः कर्तव्या । तीर्थकर-चक्रवर्ति-IN बलदेव-वासुदेवा अन्तकुलादिभ्यो गृहीत्वा उग्रकुलादिषु इन्द्राः समानयन्ति ॥ २४ ॥ तस्मात् कारणाद् भो देवानुप्रिय ! त्वं याहि, श्रीमहावीरं देवानन्दायाः कुक्षितो गृहीत्वा क्षत्रियकुण्डग्रामे नगरे सिद्धार्थक्षत्रियस्य काश्यपगोत्रस्य भार्यायाः त्रिशलायाः कुक्षौ संक्रामय । अथ च त्रिशलाया गर्भः पुत्रिकारूपः स देवानन्दायाः कुक्षौ संक्रामय । इमाम् अस्मदाज्ञां कृत्वा पश्चात् समर्पय ॥ २५॥ ततो हरिणेगमेषी देव इन्द्रस्याऽऽज्ञां श्रुत्वा
For Private and Personal Use Only