SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ विदग्धमुखमण्डनकाव्यम् । रुचिरस्वरवर्णपदा रसभाववती जगन्मनो हरति । तत्किं तरुणी नहि नहि वाणी बाणस्य मधुरशीलस्य ॥ २८ ॥ अपह्नुतिजातिः । स्वरेषु बिन्दुयुक्तेषु हलानां यदबोधनम् । तद्विदुमदिति प्राहुः केचिद्विन्दुमतीमिति ॥ २९ ॥ बिन्दु : अनुखारो विद्यते यस्मिन् तत् बिन्दुमत्पृष्टम् ॥ मानसी नाभसीत्याद्या बुद्ध्यादौ न्यासतो हि याः । बाहुल्येनाप्रयोगास्ता नेह तासां प्रदर्शनम् ॥ ३० ॥ ठिठठठठाठठ्ठ ठिठ्ठे ठिठोः ठुठुठ्ठठीठठिठः । ठठकुठठठि कुठठाठठठीठठठोठठठ्ठठः || त्रिनयनचूडारनं मित्रं सिन्धोः कुमुद्वतीदयितः । अयमुदयति घुसृणारुणतरुणीवदनोपमश्चन्द्रः || ३१ ॥ किमुकं भवति । बिन्दुमज्जातेः प्रथमं श्लोकं विधाय पञ्चाद्ये श्लोकस्य वर्णाः भवन्ति ते लुप्यन्ते तेषां स्थाने ठकाराः बिन्दवो वा क्रियन्ते । तत्रस्थाः स्वरात - त्रैव स्थाप्यन्ते । एवमेषा बिन्दुमती भवति । परं हलानामभावान्न केनापि स श्लोको वाचयितुं शक्यते । अत्र त्रिनयनचूडारनमित्यस्य आर्यावृत्तस्य वर्णस्थाने ठकारा लिखिताः सन्ति । उपरिष्टाच्च खरा दत्ताः सन्ति । एतस्यैव श्लोकस्य रीत्या बिन्दुमती लेखनीया ॥ सखि विधुमध्यगतं किं तव वदनमुत गण्डशेखरस्याङ्कः । एतौ विलोकनात्परस्परं विस्मयं कुरुते दृश्यते च ॥ ३२ ॥ of sogs : । ॥ ৩৩ इति बिन्दुमजातिः । सखि विधुमध्यगतं किमित्यार्यावृत्तस्य बिन्दून् लिखित्वा खरा देयाः ॥ क्रियादिकं स्थितं यत्र पदसंधानकौशलात् । स्फुटं न लभ्यते तच्च क्रिया गुप्ता दिकं यथा ॥ ३३ ॥ क्रिया इति क्रियापदं गुप्तं यस्मिन् तत् क्रियागुप्तं आदिर्यस्मिन् तत् क्रियागुप्तादिकम् | आदिशब्देन 'क्रियाकारक संबन्धगुप्तान्यामन्त्रितस्य च गुप्तं । तथा समासस्य लिङ्गस्य वचनस्य च ॥' सुप्तिरूपस्य द्वयस्य वचनस्य च कारकशब्दे 'कर्ता कर्म च करणं संप्रदानं तथैव । अपादानाधिकरणमित्याहुः कारकाणि षट् ॥ राजन्नवघनश्याम नित्रिंशाकर्षदुर्जयः । आकल्पं वसुधामेतां विद्विषो द्य रणे बहून् ॥ ३४ ॥ 88 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034657
Book TitleVidagdha Mukh Mandan Kavyam
Original Sutra AuthorN/A
AuthorVasudev Lakshman Sharma
PublisherPandurang Jawaji
Publication Year1926
Total Pages56
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy