________________
चतुर्थः परिच्छेदः । दाहिणपवणुन्विग्गा सम्मीलइ लोयणाइं पहियवहू ।
निउणसही उण तीए कण्ण विवरेहिं ढकेहि ॥ २१ ॥ दाहिण इति । व्याख्या-काचित्पथिकवधूदक्षिणपवनेनोद्विना व्याकुलीकृता सती लोचने संमीलयति आच्छादयति । तदा च तस्या निपुणसखी प्रवीणवयस्या तस्याः पथिकनार्याः कर्णयोर्विवरे छिद्रे अङ्गुल्या ढक्कयति । मुद्रयतीत्यर्थः । तत्सख्या कर्णाच्छादनं कस्मात्कृतं इत्यर्थो गूढ विचारणीयः। तचैवं तया दक्षिणपवनमसहमानया निजनेत्रे मुद्रिते । सख्या च विरहिणीलान्मा कदाचित्कर्णमार्गेणास्या जीवो व्रजेदि. त्यतस्तस्याः कर्णौ पिहिताविति भावः। अथ पाठान्तरम् । पथिकवधूर्लोचनानि संमी. लयति। किंभूता। दक्षिणपवनोद्विमा निपुणसखी पुनस्तस्याः कण्ठमपि हस्तैश्छादयति। तत्कथम् । सा कण्ठगतप्राणा अहमेवं मन्ये । अन्यथास्याः कण्ठात्प्राणाः गमिष्यन्ति ॥
अर्थगूढं । इति गूढजातिः। स्तुतिनिन्दातदर्थत्वाहयर्थमर्थद्वयोदयात् । निहवात्कथितस्यापि शब्दव्याजादपद्भुतिः ॥ २२ ।। स्तुतिश्च निन्दा च स्तुतिनिन्दे । ते विद्येते यस्यां सा स्तुतिनिन्दाजातिः । द्वौ अर्थौ यस्मिन् तत् व्यर्थ पृष्टम् । कथितस्यार्थस्य शब्दकपटेन मिथ्याभाषणात् अपहुतिरिति नामजातिः । एषां त्रयाणामुदाहरणानि मूलग्रन्थे सरलानि भवन्ति ॥
बहुदोषो गुणध्वंसी गोहन्ता जनपीडकः । करोतु विरथो लोकमस्तमाप्तमहोदयम् ॥ २३ ॥
विष्णोः स्तुतिनिन्दे। सततमहितजनवत्सलबहुभयपापक्रियापरिभ्रष्टः । इह कलिकाले कुपतिर्जगतस्त्वं परमदुःखकरः ॥ २४ ॥
राक्षः स्तुतिनिन्दे ।
इति स्तुतिनिन्दाजातिः। प्रसन्नवदनः श्रीमानयं लब्धमहोदयः। करप्रचारसुभगो राजा नन्दयति प्रजाः ॥ २५ ॥
चन्द्रभूपती । विनायकाहितप्रीतिर्देवो गङ्गां बभार यः। सर्वदोमाधवः स त्वामव्यादव्यर्थविक्रमः ॥ २६ ॥
हरिहरौ।
इति द्यर्थजातिः । सीत्कारं शिक्षयति व्रणयत्यधरं तनोति रोमाञ्चम् । किमु नागरिको मिलितो नहि नहि सखि हैमनः पवनः ॥२७॥
५ विद.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com